श्रवणम्

8.96.16
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय᳚मानो॑श॒त्रुभ्यो᳚ अभव॒ः शत्रु᳚रिन्द्र ।
गू॒ळ्हे द्यावा᳚पृथि॒वी अन्व᳚विन्दो विभु॒मद्भ्यो॒ भुव᳚नेभ्यो॒ रणं᳚ धाः ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । स॒प्त॑भ्यः᳚ । जाय᳚मानः । अ॒श॒त्रु॑भ्यः᳚ । अ॒भ॒वः॒ । शत्रुः᳚ । इ॒न्द्र॒ ।
गू॒ळ्हे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । अनु᳚ । अ॒वि॒न्दः॒ । वि॒भु॒मत्॑भ्यः᳚ । भुव᳚नेभ्यः । रण᳚म् । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं खलु तत् कर्म कृतवानसि । किंतत् उच्यते-जायमानस्त्वं प्रादुर्भवन्नेव अशत्रुभ्यः शत्रुरहितेभ्यः सप्तभ्यः कृष्णवृत्रनमुचिशंबरादिसप्तभ्यो- बलवद्भ्यः शत्रुभ्यः तदर्थं शत्रुरभवः । यद्वा सप्तभ्यः सप्तैवांगिरसः । सप्तभ्यः अंगिरोभ्यः गवानयनार्थं प्रादुर्भवन्ने वाशत्रुभ्योबलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं गूह्ळे तमसा गूढे संवृते द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्य अनुक्रमेण अविन्दः अलभथाः । तथा विभुमद्भ्यः महत्त्वयुक्तेभ्योभुवनेभ्योलोकेभ्यः रणं रमणं धाः धारयसि विदधासीत्यर्थः ॥ १६ ॥