मन्ये᳚ त्वा य॒ज्ञियं᳚ य॒ज्ञिया᳚नां॒ मन्ये᳚ त्वा॒ च्यव᳚न॒मच्यु᳚तानाम् ।
मन्ये᳚ त्वा॒ सत्व᳚नामिन्द्र के॒तुं मन्ये᳚ त्वा वृष॒भं च᳚र्षणी॒नाम् ॥
मन्ये᳚ त्वा॒ सत्व᳚नामिन्द्र के॒तुं मन्ये᳚ त्वा वृष॒भं च᳚र्षणी॒नाम् ॥
पदपाठः (Word-by-word)
मन्ये᳚ । त्वा॒ । य॒ज्ञिय᳚म् । य॒ज्ञिया᳚नाम् । मन्ये᳚ । त्वा॒ । च्यव᳚नम् । अच्यु᳚तानाम् ।
मन्ये᳚ । त्वा॒ । सत्व᳚नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये᳚ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥
मन्ये᳚ । त्वा॒ । सत्व᳚नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये᳚ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥
सायणभाष्यम् (Sayana Commentary)
एतदादयः प्रत्यक्षाः हे इन्द्र त्वा त्वां यज्ञियानां यज्ञार्हाणां देवानामपि यज्ञियं पुरस्तादेव यज्ञार्हमितिमन्ये अवबुध्ये । तथा त्वा त्वां अच्युतानां च्युतिरहितानामपि पर्व तानां च्यवनं च्यावयितारं वज्रेण विभेदकमिति मन्ये जानामि । यद्वा अच्युतानां बलेनच्यावयितुमशक्यानां बलिनां वीराणां अपि स्वबलेन विद्रावयितारमिति जाने । किंच हेइन्द्र सत्वनां सत्वानां षणसंभक्तौ क्वनिप् संभजमानानां भटानां केतुमुच्छ्रितमिति मन्ये । यद्वा सत्वानां स्तुतिभिर्हविर्भिर्वा संभक्तॄणां यष्टृणां केतुं आत्मनः प्रज्ञापकं तेषां पूजनीयमितिवा मन्ये । तथा त्वा त्वां चर्षणीनां मनुष्याणां वृषभं अभिमतफलवर्षकमिति मन्ये जानामि ॥ ४ ॥