श्रवणम्

8.96.10
म॒ह उ॒ग्राय᳚ त॒वसे᳚ सुवृ॒क्तिं प्रेर᳚य शि॒वत᳚माय प॒श्वः ।
गिर्वा᳚हसे॒ गिर॒ इन्द्रा᳚य पू॒र्वीर्धे॒हि त॒न्वे᳚ कु॒विद॒ङ्ग वेद᳚त् ॥
▶ पदपाठः (Word-by-word)
म॒हे । उ॒ग्राय᳚ । त॒वसे᳚ । सु॒॑वृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒व॑त᳚माय । प॒श्वः ।
गिर्वा᳚हसे । गिरः᳚ । इन्द्रा᳚य । पू॒र्वीः । धे॒हि । त॒न्वे᳚ । कु॒वित् । अ॒ङ्ग । वेद᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः महे महते गुणैः उग्राय बलेनोद्गूर्णाय तवसे तुइति धातुर्वृद्भ्यर्थः । प्रवृद्धाय शिवतमाय कल्याणतमायेन्द्राय सुवृक्तिंशोभनां स्तुतिं प्रेरय चोदय कुरु । किमर्थं पश्वः पशोः द्विपाच्च चतुष्पाच्च पशोर्मम अस्मदीयाय गवेवा यद्वा पशोरतीन्द्रियार्थं द्रष्टुर्मम धनादिकं दातुं गवे सुखादिकं प्रदातुमिन्द्राय स्तुतिं प्रेरय । एतदेवाह हे स्तोतः गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानायेन्द्राय पूर्वीर्बह्वीः गिरः स्तुतीः धेहि कुरु । ततः सइन्द्रः तन्वे तनोति कुलमिति तनूस्तनयः तस्मै पुत्राय स्वशरीराय आत्मनेवा कुवित् बहुनामैतत् बहुधनं अंग क्षिप्रं वेदत् लंभयतु ददातु । विदॢलाभे लेट्यडागमः कुविच्छब्दयोगादनिघातः ॥ १० ॥