अष्टमं मण्डलम् - सूक्तम् 15

13 ऋचः

ऋषिः: गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता: इंद्रः छन्दः: उष्णिक्

सूक्तम् 8.15 - सम्पूर्णम्

1 / 13
ऋक्: 8.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
8.15.1
तम्व॒भि प्र गा᳚यत पुरुहू॒तं पु᳚रुष्टु॒तम् ।
इन्द्रं᳚ गी॒र्भिस्त᳚वि॒षमा वि᳚वासत ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒॑हू॒तम् । पु॒रु॒॑स्तु॒तम् ।
इन्द्र᳚म् । गीः॒॑भिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुहूतं बहुभिराहूतं पुरुष्टुतं बहुभिःस्तुतं तमु तमेवेन्द्रं हे स्तोतारः अभिप्रगायत अभिमुखं प्रकर्षेणस्तुध्वम् एतदेवस्पष्टयति तविषं महान्तमिन्द्रं गीर्भिर्वाग्भिः आविवासत परिचरत ॥ १ ॥

8.15.2
यस्य᳚ द्वि॒बर्ह᳚सो बृ॒हत्सहो᳚ दा॒धार॒ रोद᳚सी ।
गि॒री{4}रज्रा{4}᳚ अ॒पः स्व᳚र्वृषत्व॒ना ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । द्वि॒॑बर्ह᳚सः । बृ॒हत् । सहः᳚ । दा॒धार᳚ । रोद᳚सी॒ इति᳚ ।
गि॒रीन् । अज्रा᳚न् । अ॒पः । स्वः᳚ । वृ॒ष॒॑त्व॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्विबर्हसः द्वयोःस्थानयोः परिवृढस्य यस्येन्द्रस्य बृहन्महत् सहोबलं रोदसी द्यावापृथिव्यौ दाधार धारयति छान्दसोलिट् तुजादित्वादभ्यासदीर्घः तथा अज्रान् क्षिप्रगमनान् गिरीन् पवर्तान् मेघान् वा स्वः सरणशीला अपउदकानिच वृषत्वना वीर्येण यस्येन्द्रस्य बलंधारयेति तत्रावस्थापयति तम्वभीति पूर्वया संबंधः सत्वमित्युत्तरया वा ॥ २ ॥

8.15.3
स रा᳚जसि पुरुष्टुत{4}॒ एको᳚ वृ॒त्राणि᳚ जिघ्नसे ।
इन्द्र॒ जैत्रा᳚ श्रव॒स्या᳚ च॒ यन्त᳚वे ॥
▶ पदपाठः (Word-by-word)
सः । रा॒ज॒सि॒ । पु॒रु॒॑स्तु॒त॒ । एकः᳚ । वृ॒त्राणि᳚ । जि॒घ्न॒से॒ ।
इन्द्र᳚ । जैत्रा᳚ । श्र॒व॒स्या᳚ । च॒ । यन्त᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुष्टुत बहुभिः स्तुतेन्द्र सपूर्वोक्तगुणस्त्वं राजसि दीप्यसे ईशिषे वा अपिच त्वमेकः सहायरहितः केवलएवसन् वृत्राण्यावरकाणि शत्रुजातानि जिघ्नसे हतवानसि । किमर्थं जैत्रा जैत्राणि जेतव्यानि धनानि श्रवस्या श्रवस्यानि श्रवणीयान्यन्नानि यद्वा श्रवणार्हाणि यशांसि च यंतवे यन्तुं निय- न्तुं स्वाधीनं कर्तुम् ॥ ३ ॥

8.15.4
तं ते॒ मदं᳚ गृणीमसि॒ वृष᳚णं पृ॒त्सु सा᳚स॒हिम् ।
उ॒ लो॒क॒कृ॒त्नुम᳚द्रिवो हरि॒श्रिय᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । ते॒ । मद᳚म् । गृ॒णी॒म॒सि॒ । वृष᳚णम् । पृ॒त्॑सु । स॒स॒हिम् ।
ऊं॒ इति᳚ । लो॒क॒॑कृ॒त्नुम् । अ॒द्रि॒॑वः॒ । ह॒रि॒॑श्रिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवोवज्रवन्निन्द्र ते त्वदीयं तं मदं सोमपानजनितं हर्षं गृणीमसि गृणीमः प्रशंसामः गृशब्दे क्र्यादिः प्वादीनांह्रस्वः इदंतोमसीति मसइ- कारागमः । कीदृशं वृषणं वर्षितारं कामानां पृत्सु संग्रामेषु सासहिं शत्रूणामभिभवितारं लोककृत्नुं लोकस्य स्थानस्य कर्तारं हरिश्रियं हरिभ्याम- श्वाभ्यां श्रयणीयं सेव्यं उशब्दः समुज्वये पदपूरणे वा ॥ ४ ॥

8.15.5
येन॒ ज्योतीं᳚ष्या॒यवे॒ मन᳚वे च वि॒वेदि᳚थ ।
म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा᳚जसि ॥
▶ पदपाठः (Word-by-word)
येन᳚ । ज्योतीं᳚षि । आ॒यवे᳚ । मन᳚वे । च॒ । वि॒वेदि᳚थ ।
म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः᳚ । वि । रा॒ज॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र येनात्मीयेन मदेन आयवे और्वशेयाय मनवे विवस्वतः पुत्राय च ज्योतींषि सूर्यादीनि वृत्रादिभिरावृतानि तद्धरणेन विवेदिथ अलंभयः प्रज्ञापितवान् प्रकाशितवानसीत्यर्थः तेन मदेन मन्दानोमोदमानस्त्वं अस्य बर्हिषा वृद्धस्य यज्ञस्य विराजसि विशेषेणेशिषे । यद्वा अभ्येति तृती- यार्थेषष्ठी अनेन बर्हिषा वृद्धेन हृष्यन् विराजसि विशेषेण दीप्यसे ॥ ५ ॥

8.15.6
तद॒द्या चि᳚त्त उ॒क्थिनो॑नु᳚ ष्टुवन्ति पू॒र्वथा᳚ ।
वृष᳚पत्नीर॒पो ज᳚या दि॒वेदि᳚वे ॥
▶ पदपाठः (Word-by-word)
तत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिनः᳚ । अनु᳚ । स्तु॒व॒न्ति॒ । पू॒र्व॑था᳚ ।
वृष᳚॑पत्नीः । अ॒पः । ज॒य॒ । दि॒वे॑दि᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदीयं तत्प्रसिद्धं बलं अद्याचित् अद्यापि पूर्वथा पूर्वस्मिन्काले इव उक्थिनः शख्निणः स्तोतारःअनुष्टुवन्ति क्रमेण प्रशंसन्ति सत्वं वृषपत्नीः वृषा वर्षिता पर्जन्यः पतिर्यासां तादृशीरपः दिवेदिवे प्रतिदिवसं जय स्वायत्तंकुरु ॥ ६ ॥

8.15.7
तव॒ त्यदि᳚न्द्रि॒यं बृ॒हत्तव॒ शुष्म᳚मु॒त क्रतु᳚म् ।
वज्रं᳚ शिशाति धि॒षणा॒ वरे᳚ण्यम् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव᳚ । शुष्म᳚म् । उ॒त । क्रतु᳚म् ।
वज्र᳚म् । शि॒शा॒ति॒ । धि॒षणा᳚ । वरे᳚ण्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तव त्यत् तत्प्रसिद्धं इन्द्रियमिन्द्रस्यलिंगं बृहत्प्रभूतं वीर्यं धिषणा स्तुतिः शिशाति निःश्यति तीक्ष्णीकरोति । तथा तव त्वदीयं शुष्मं शोषकं बलं उतापिच क्रतुं प्रज्ञानं बलं कर्म वा वरेण्यं वरणीयं वज्रमायुधंच स्तुतिः तीक्ष्णीकरोति ॥ ७ ॥

8.15.8
तव॒ द्यौरि᳚न्द्र॒ पौंस्यं᳚ पृथि॒वी व᳚र्धति॒ श्रवः᳚ ।
त्वामाप॒ः पर्व᳚तासश्च हिन्विरे ॥
▶ पदपाठः (Word-by-word)
तव᳚ । द्यौः । इ॒न्द्र॒ । पौंस्य᳚म् । पृ॒थि॒वी । व॒र्ध॒ति॒ । श्रवः᳚ ।
त्वाम् । आपः᳚ । पर्व᳚तासः । च॒ । हि॒न्वि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तव त्वदीयं पौंस्यं बलं द्यौः वर्धति वर्धयति त्वदीयं श्रवो यशः पृथिवी वर्धयति वृधेर्ण्यन्ताल्लटि शपि छन्दस्युभयथेत्यार्धधातुकत्वात् णेरनिटीतिणिलोपः तं त्वां आप उदकान्यन्तरिक्षाणि पर्वतासः पर्वताः पर्ववन्तोमेघाश्च गिरयश्चवा हिन्विरे प्रीणयन्ति स्वामित्वेन प्राप्रुवन्ति वा ॥ ८ ॥

8.15.9
त्वां विष्णु᳚र्बृ॒हन्क्षयो᳚ मि॒त्रो गृ᳚णाति॒ वरु᳚णः ।
त्वां शर्धो᳚ मद॒त्यनु॒ मारु᳚तम् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । विष्णुः᳚ । बृ॒हन् । क्षयः᳚ । मि॒त्रः । गृ॒णा॒ति॒ । वरु᳚णः ।
त्वाम् । शर्धः᳚ । म॒द॒ति॒ । अनु᳚ । मारु᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र बृहन्महान् क्षयोनिवासहेतुर्विष्णुर्मित्रोवरुणश्च त्वां गृणाति स्तौति तथा मारुतं मरुत्संबंधि शर्धोबलं त्वामनु मदति तव मदमनुलक्ष्य पश्चान्माद्यति त्वामनु मादयति वा ॥ ९ ॥

8.15.10
त्वं वृषा॒ जना᳚नां॒ मंहि᳚ष्ठ इन्द्र जज्ञिषे ।
स॒त्रा विश्वा᳚ स्वप॒त्यानि᳚ दधिषे ॥
▶ पदपाठः (Word-by-word)
त्वम् । वृषा᳚ । जना᳚नाम् । मंहि᳚ष्ठः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ ।
स॒त्रा । विश्वा᳚ । सु॒॑अ॒प॒त्यानि᳚ । द॒धि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृषा वर्षिता त्वं जनानां देवजनानां मध्ये मंहिष्ठोदातृतमोजज्ञिषे प्रादुर्भवसि । अतएव विश्वा सर्वाणि स्वपत्यानि शोभनैः पुत्रादिभिः सहितानि सत्रा सह दधिषे । यद्वा स्तोतृतमोजज्ञिषे प्रादुर्भवसि अतएव विश्वा सर्वाणि दातुं धारयसि ददासि वा ॥ १० ॥

8.15.11 समानपद
स॒त्रा त्वं पु᳚रुष्टुत{4}॒ एको᳚ वृ॒त्राणि᳚ तोशसे ।
नान्य इन्द्रा॒त्कर᳚णं॒ भूय᳚ इन्वति ॥
▶ पदपाठः (Word-by-word)
स॒त्रा । त्वम् । पु॒रु॒॑स्तु॒त॒ । एकः᳚ । वृ॒त्राणि᳚ । तो॒श॒से॒ ।
न । अ॒न्यः । इन्द्रा᳚त् । कर᳚णम् । भूयः᳚ । इ॒न्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुष्टुत बहुभिः स्तुतेन्द्र त्वमेकोसहायएवसन् सत्रा महन्नामैतत् महान्ति वृत्राणि शत्रुजातानि यद्वा सत्रेति सहार्थे सहैव युगपदेव एकयत्नेनैव तोशसे हिनस्सि तोशतिर्वधकर्मा अकर्तुं शक्तानीतिभावः । अपिचास्मादिन्द्रादन्यः कश्चिद्धूयोबहुतरं करणं कर्म वृत्रवधादिकं न इन्वति प्राप्नोति इन्द्रएव कर्तुं शक्रोतीतिभावः ॥ ११ ॥

8.15.12
यदि᳚न्द्र मन्म॒शस्त्वा॒ नाना॒ हव᳚न्त ऊ॒तये᳚ ।
अ॒स्माके᳚भि॒र्नृभि॒रत्रा॒ स्व᳚र्जय ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । म॒न्म॒॑शः । त्वा॒ । नाना᳚ । हव᳚न्ते । ऊ॒तये᳚ ।
अ॒स्माके᳚भिः । नृ॑भिः᳚ । अत्र᳚ । स्वः᳚ । ज॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र थद्यस्मिन् संग्रामे त्वा त्वां मन्मशः मन्मना मननीयेन स्तोत्रेण नाना बहुप्रकारं हवन्ते आह्वयन्ति । किमर्थं ऊतये रक्षायै । अत्रास्मिन् संग्रामे अस्माकेभिः अस्माकैरस्मदीयैरेव नृभिर्नेतृभिः स्तोतृभिः आहूतः सन् स्वः शत्रुबलं जयाभिभव ॥ १२ ॥

8.15.13
अरं॒ क्षया᳚य नो म॒हे विश्वा᳚ रू॒पाण्या᳚वि॒शन् ।
इन्द्रं॒ जैत्रा᳚य हर्षया॒ शची॒पति᳚म् ॥
▶ पदपाठः (Word-by-word)
अर᳚म् । क्षया᳚य । नः॒ । म॒हे । विश्वा᳚ । रू॒पाणि᳚ । आ॒॑वि॒शन् ।
इन्द्र᳚म् । जैत्रा᳚य । ह॒र्ष॒य॒ । शची॒३॒᳚॑पति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः महे महते नोस्माकं क्षयाय गृहनामैतत् गृहाय तादर्थ्ये चतुर्थी गृहार्थं अरमलं पर्याप्तं विश्वा विश्वानि व्याप्तानि रूपाणि इन्द्रगतानि गुणजातानि आविशन् स्तुत्याव्याप्नुवन् शचीतिकर्मनाम कर्मणां पालकं यद्वा शच्या इन्द्राण्याभर्तारं तमेवेन्द्रं जैत्राय जेतव्यधनार्थं हर्षय तोषय स्तुत्यापरिचरणेनवेति शेषः ॥ १३ ॥

प्रसम्राजमिति द्वादशर्चं चतुर्थं सूक्तं इरिंबिठिनाम्रः काण्वस्यार्षं गायत्रमैन्द्रं अनुक्रम्यतेहि-प्रसम्राजं द्वादशेरिंबिठिरिति । अतिरात्रेद्वितीयेपर्या- येच्छावाकशस्त्रे एतत्सूक्तं सूत्रितंच-प्रसम्राजमुपक्रमस्वाभरेति । महाव्रतेपि निष्केवल्ये एतदादिकेद्वेसूक्ते उपरितनस्यान्त्यं द्वऋचं वर्जयित्वा तथैव- पंचमारण्यकेसूत्रितम्-प्रसम्राजंचर्षणीनामितिसूक्ते उत्तरस्योत्तमे उद्धरतीति ।