अष्टमं मण्डलम् - सूक्तम् 65

12 ऋचः

ऋषिः: प्रगाथः काण्वः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.65 - सम्पूर्णम्

1 / 12
ऋक्: 8.65.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
8.65.1
यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य᳚ग्वा हू॒यसे॒ नृभि᳚ः ।
आ या᳚हि॒ तूय᳚मा॒शुभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । प्राक् । अपा᳚क् । उद᳚क् । न्य᳚क् । वा॒ । हू॒यसे᳚ । नृ॑भिः᳚ ।
आ । या॒हि॒ । तूय᳚म् । आ॒शु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नृभिः कर्मनेतृभिः अस्मदीयैः अध्वर्य्वादिभिः प्राग्वा अपाग्वा उदग्वान्यग्वा यतः कुतश्चिद्धूयसे अतस्तूयं तूर्णमाशुभिराशुगामिभिरश्वै- रायाह्यागच्छ ॥ १ ॥

8.65.2
यद्वा᳚ प्र॒स्रव᳚णे दि॒वो मा॒दया᳚से॒ स्व᳚र्णरे ।
यद्वा᳚ समु॒द्रे अन्ध᳚सः ॥
▶ पदपाठः (Word-by-word)
यत् । वा॒ । प्र॒॑स्रव᳚णे । दि॒वः । मा॒दया᳚से । स्वः᳚॑नरे ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्वा अथवा दिवो द्युलोकस्य प्रस्रवणे अमृतनिस्पन्दने स्थाने मादयासे माद्यसि यद्वा स्वर्णरे स्वर्गनयनेवा भूलोके अन्यस्य यागदेशे माद्यसि । यद्वा अन्धसः अन्धोन्नं तेन तत्कारणमुदकं लक्ष्यते तस्य समुद्रे समुन्दनापादनभूतेन्तरिक्षे माद्यसि तत्रतत्र वर्तमानमपि हुवइत्युत्तरत्र सम्बन्धः ॥ २ ॥

8.65.3
आ त्वा᳚ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि᳚व॒ भोज᳚से ।
इन्द्र॒ सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । गीः॒॑भिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्॑इ᳚व । भोज᳚से ।
इन्द्र᳚ । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां गीर्भिः स्तुतिभिः आहुवे आह्वयामि कीदृशं त्वां महां महान्तं उरुं प्रभूतं किमर्थं सोमस्यपीतये पानाय । आह्वाने दृष्टान्तः-भोजसे भोगाय गामिव ॥ ३ ॥

8.65.4
आ त᳚ इन्द्र महि॒मानं॒ हर᳚यो देव ते॒ महः᳚ ।
रथे᳚ वहन्तु॒ बिभ्र᳚तः ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान᳚म् । हर᳚यः । दे॒व॒ । ते॒ । महः᳚ ।
रथे᳚ । व॒ह॒न्तु॒ । बिभ्र᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव महिमानं माहात्म्यं रथे बिभ्रतो धारयन्तो हरयोश्वा आवहन्तु । तथा हे देव ते महस्तेजोरथे बिभ्रतः अश्वा आवहन्तु । अत्र महिम्नो महसश्च पृथगावहनासंभवात् ताभ्यां विशिष्टं वहंत्वित्यर्थः । अथवा महिमानं बिभ्रतस्ते त्वां रथेवहन्तु महोबिभ्रतश्च त्वां वहन्त्विति योज्यम् ॥ ४ ॥

8.65.5
इन्द्र᳚ गृणी॒ष उ᳚ स्तु॒षे म॒हा{4} उ॒ग्र ई᳚शान॒कृत् ।
एहि᳚ नः सु॒तं पिब᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । गृ॒णी॒षे । ऊं॒ इति᳚ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒॑कृत् ।
आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं गृणीषे उच्यसे इदं देहीदंकुर्वि ति । तथा स्तुषेउ स्तूयसे च । उइति चार्थे । कादृशस्त्वं महान् गुणैः प्रवृद्धः उग्रउद्गूर्णबलः ईशानकृत् ऎश्वर्यकर्ता तादृशस्त्वं एत्द्यागच्छ आगत्यच नः सुतं सोमं पिब ॥ ५ ॥

8.65.6
सु॒ताव᳚न्तस्त्वा व॒यं प्रय᳚स्वन्तो हवामहे ।
इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒त॑व᳚न्तः । त्वा॒ । व॒यम् । प्रय᳚स्वन्तः । ह॒वा॒म॒हे॒ ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒॑सदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतावन्तोभिषुतसोमवन्तः प्रयस्वन्तश्चरुपुरोडाशाद्यन्नवन्तश्च वयं त्वा त्वां हवामहे आह्वयामः किमर्थं इदं नोस्मदीयं बर्हिर्बर्हिषि यज्ञे बर्हिषिवा आसदे आसादनाय ॥ ६ ॥

8.65.7
यच्चि॒द्धि शश्व᳚ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् ।
तं त्वा᳚ व॒यं ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । शश्व᳚ताम् । असि᳚ । इन्द्र᳚ । साधा᳚रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यच्चिद्धि यस्मात्खलु शश्वतां बहूनां यजमानानां साधारणोसि । चिदितिपूरणः । हीतिप्रसिद्धौ । तं तादृशं साधारणं त्वा त्वां वयं हवा- महे आह्वयामः । इतरेभ्यः पूर्वमिति भावः ॥ ७ ॥ प्रातःसवने इदंतेसोम्यमिति होतुः प्रस्थितयाज्या । सूत्रितञ्च-इदंतेसोम्यंमधु मित्रंवयंहवामहइति ।

8.65.8
इ॒दं ते᳚ सो॒म्यं मध्वधु᳚क्ष॒न्नद्रि᳚भि॒र्नरः᳚ ।
जु॒षा॒ण इ᳚न्द्र॒ तत्पि᳚ब ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । ते॒ । सो॒म्यम् । मधु᳚ । अधु᳚क्षन् । अद्रि᳚॑भिः । नरः᳚ ।
जु॒षा॒णः । इ॒न्द्र॒ । तत् । पि॒ब॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदर्थमिदं सोम्यं सोमसम्बन्धि मधु अधुक्षत् अद्रिभिः ग्रावभिरभिषवसाधनैर्नरोस्मदीयाअध्वर्य्वादयः । हे इन्द्र तन्मधु जुषाणः प्रीयमा- णः पिब ॥ ८ ॥

8.65.9
विश्वा{4}᳚ अ॒र्यो वि᳚प॒श्चितो॑ति᳚ ख्य॒स्तूय॒मा ग᳚हि ।
अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚न् । अ॒र्यः । वि॒पः॒॑चितः᳚ । अति᳚ । ख्यः॒ । तूय᳚म् । आ । ग॒हि॒ ।
अ॒स्मे इति᳚ । धे॒हि॒ । श्रवः᳚ । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अर्यः स्वामी त्वं विश्वान्विपश्चितः स्तोतॄन् अतिख्यः अतिक्रम्य पश्य । तदर्थं तूयं क्षिप्रमागहि आगत्य चास्मेस्मासु बृहच्छ्रवोन्नं यशोवा धेहि ॥ ९ ॥

8.65.10
दा॒ता मे॒ पृष᳚तीनां॒ राजा᳚ हिरण्य॒वीना᳚म् ।
मा दे᳚वा म॒घवा᳚ रिषत् ॥
▶ पदपाठः (Word-by-word)
दा॒ता । मे॒ । पृष᳚तीनाम् । राजा᳚ । हि॒र॒ण्य॒॑वीना᳚म् ।
मा । दे॒वाः॒ । म॒घ॑वा᳚ । रि॒ष॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यवीनां हिरण्यवीतानां पृषतीनां राजा इन्द्रोमे दाता भवतु । हे देवाः मघवा इन्द्रोनारिषत् रिष्टोमाभवतु ॥ १० ॥

8.65.11
स॒हस्रे॒ पृष᳚तीना॒मधि᳚ श्च॒न्द्रं बृ॒हत्पृ॒थु ।
शु॒क्रं हिर᳚ण्य॒मा द᳚दे ॥
▶ पदपाठः (Word-by-word)
स॒हस्रे᳚ । पृष᳚तीनाम् । अधि᳚ । च॒न्द्रम् । बृ॒हत् । पृ॒थु ।
शु॒क्रम् । हिर᳚ण्यम् । आ । द॒दे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं पृषतीनां गवां सहस्रे अधि उपरि धारितं बृहत् महत् पृथु विस्तृतं चन्द्रं आह्लादकं शुक्रं निर्मलं हिरण्यं आददे स्वीकरोमि इन्द्रोणानीतम् ॥ ११ ॥

8.65.12
नपा᳚तो दु॒र्गह᳚स्य मे स॒हस्रे᳚ण सु॒राध᳚सः ।
श्रवो᳚ दे॒वेष्व᳚क्रत ॥
▶ पदपाठः (Word-by-word)
नपा᳚तः । दुः॒॑गह᳚स्य । मे॒ । स॒हस्रे᳚ण । सु॒॑राध᳚सः ।
श्रवः᳚ । दे॒वेषु᳚ । अ॒क्र॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नपातः अरक्षितस्य दुर्गहस्य दुःखं गाहमानस्य मे मम सम्बन्धिनोजनाः सहस्रेण अपरिमितेनेन्द्रदत्तेन गवादिधनेन सुराधसः सुधनाः सन्तोदेवेषु प्रीतेषु इन्द्रः प्रीतइत्यर्थः श्रवोन्नं यशोवा अक्रत अलभन्तेत्यर्थः ॥ १२ ॥

तरोभिर्वइति पञ्चदशर्चं सप्तमं सूक्तं प्रगाथपुत्रस्य कलेरार्षं प्रथमातृतीयाद्ययुजोबृहत्यः द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः पञ्चदशीत्वनुष्टुप् । तथाचानुक्रमणिका-तरोभिःपञ्चोना कलिः प्रागाथः प्रागाथमन्त्यानुष्टुबिति । महाव्रतेनिष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथाच पञ्चमारण्य- केसूत्रितम्-तरोभिर्वोविदद्वसुमित्युत्तमामुद्धरेदिति । अग्निष्टोमेच्छावाकशस्त्रे प्रगाथः स्तोत्रियः । तथाचसूत्रितम्-तरोभिर्वोविदद्वसुं तरणिरित्सिषा- सतीति प्रगाथौ स्तोत्रियानुरूपाविति । चातुर्विंशिकेहन्ययमेवप्रगाथः स्तोत्रियः । सूत्रितंच-तरोभिर्वोविदद्वसुं तरणिरित्सिषासतीति ।