अष्टमं मण्डलम् - सूक्तम् 69

18 ऋचः

ऋषिः: प्रियमेध देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 8.69 - सम्पूर्णम्

1 / 18
ऋक्: 8.69.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
8.69.1
प्रप्र᳚ वस्त्रि॒ष्टुभ॒मिषं᳚ म॒न्दद्वी᳚रा॒येन्द᳚वे ।
धि॒या वो᳚ मे॒धसा᳚तये॒ पुरं॒ध्या वि᳚वासति ॥
▶ पदपाठः (Word-by-word)
प्र॑प्र᳚ । वः॒ । त्रि॒॑स्तुभ᳚म् । इष᳚म् । म॒न्दत्॑वी᳚राय । इन्द᳚वे ।
धि॒या । वः॒ । मे॒ध॑सा᳚तये । पुर᳚म्॑ध्या । आ । वि॒वा॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्य्वादयो वो यूयं प्रथमार्थेद्वितीया त्रिष्टुभं स्तोभत्रयोपेतमिषमन्नं प्रप्र अपरः प्रशब्दः पूरणः प्रभरतेतिशेषः उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । कस्मै मन्दद्वीराय योवीरान् हर्षयति समन्दद्वीरः तस्मै इन्दवे इन्द्राय इन्धतेरैश्वर्यकर्मण इदंरूपम् । अथवा फलैर्वृष्टिभिर्वा उनत्तीतीन्दुरिन्द्रस्तस्मै सचेन्द्रो वो युष्मान्मेधसातये यज्ञसंभजनाय पुरन्ध्या बहुप्रज्ञया धिया कर्मणा आविवासति अभिमतफलयोजनेन सत्करोतीत्यर्थः ॥ १ ॥

8.69.2 समानपद
न॒दं व॒ ओद᳚तीनां न॒दं योयु᳚वतीनाम् ।
पतिं᳚ वो॒ अघ्न्या᳚नां धेनू॒नामि᳚षुध्यसि ॥
▶ पदपाठः (Word-by-word)
न॒दम् । वः॒ । ओद᳚तीनाम् । न॒दम् । योयु᳚वतीनाम् ।
पति᳚म् । वः॒ । अघ्न्या᳚नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ओदतीनां ओदत्यउषसः । ओदती भास्वतीति तन्नामसुपाठात् । उषसां नदं उत्पादकमित्यर्थः इन्द्रेण ह्युषसउत्पद्यन्ते इन्द्रस्यैव सूर्यत्वात् विव- स्वदिन्द्र युग्म्यइतिहि द्वादशादित्यमध्ये इन्द्रः पठितः तादृशमिन्द्रं हे यजमाना वो युष्मदर्थम् । आह्वयत इत्यर्थम् । तथा योयुवतीनां सर्वत्र मिश्रय- न्तीनां नदीनां नदं शब्दयितारं वो युष्मदर्थं आह्वयामि । अध्यानां अहन्तव्यानां गवां पतिं आह्वये । अथप्रत्यक्षकृता हे यजमान त्वं धेनूनां क्षीरादिना प्रीणयित्रीणां गवामिषुध्यस्यन्नमिच्छसि ॥ २ ॥ अग्निहोत्रे पूर्वाहुतौ हुतायां ता अस्येत्यनयोत्तरामाहुतिं कांक्षमाणस्तिष्ठेत् । तथाचसूत्रितम्-ताअस्मसूददोहसइति पूर्वामाहु तिमुपोत्थायो- त्तरां कांक्षेतेति । महाव्रते निष्केवल्येप्येषा तथैव पञ्चमारण्यके सूत्रितं-ताअस्यसूददोहइत्येतदादिः सूददोहाः सूददोहाइति ।

8.69.3
ता अ᳚स्य॒ सूद᳚दोहस॒ः सोमं᳚ श्रीणन्ति॒ पृश्न᳚यः ।
जन्म᳚न्दे॒वानां॒ विश᳚स्त्रि॒ष्वा रो᳚च॒ने दि॒वः ॥
▶ पदपाठः (Word-by-word)
ताः । अ॒स्य॒ । सूद᳚॑दोहसः । सोम᳚म् । श्री॒ण॒न्ति॒ । पृश्न᳚यः ।
जन्म᳚न् । दे॒वाना᳚म् । विशः᳚ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ताः प्रसिद्धाः सूददोहसः सूदइति कूपनाम तत्सदृशदोहनाः पृश्नयः पृश्निवर्णाः गावोस्येन्द्रस्य सोमं श्रीणन्ति मिश्रयन्त्याशिरेण । कदा त्रिषु त्रिष्व- पि सवनेषु । गावो विशेष्यन्ते देवानां जन्मन् जन्मस्थाने दिवीति शेषः दिवआदित्यस्य आरोचने आरोचमाने अनेन द्यौर्विशेष्यते तस्मिन् स्थाने विशोनिविशन्त्यः । यज्ञार्थोपयुक्तानां गवां द्युप्राप्तिः प्रसिद्धा ॥ ३ ॥ द्वितीयेपर्याये मैत्रावरुणशस्त्रे अभिप्रगोपतिमिति तृचोनुरूपः सूत्रितंच-अभित्वावृषभासुतेभिप्रगोपतिंगिरेति ।

8.69.4
अ॒भि प्र गोप᳚तिं गि॒रेन्द्र᳚मर्च॒ यथा᳚ वि॒दे ।
सू॒नुं स॒त्यस्य॒ सत्प᳚तिम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्र । गो॑प᳚तिम् । गि॒रा । इन्द्र᳚म् । अ॒र्च॒ । यथा᳚ । वि॒दे ।
सू॒नुम् । स॒त्यस्य᳚ । सत्॑प᳚तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोपतिं गवांस्वामिनमिन्द्रं अभिप्रार्च प्रकर्षेण पूजय गिरा स्तुत्या यथा विदे सयथा स्वात्मानं स्तुतप्रकारं जानाति यथावा यागं प्रतिगन्तव्यमिति जानाति तथार्चेति । कीदृशमिन्द्रं सत्यस्य यज्ञस्य सत्यस्यवा सूनुं पुत्रं तत्रानुरक्तत्वात् सूनुरित्युपचर्यते सत्पतिं सतां यजमानानां पालकम् ॥ ४ ॥

8.69.5
आ हर᳚यः ससृज्रि॒रे॑रु᳚षी॒रधि᳚ ब॒र्हिषि᳚ ।
यत्रा॒भि सं॒नवा᳚महे ॥
▶ पदपाठः (Word-by-word)
आ । हर᳚यः । स॒सृ॒ज्रि॒रे॒ । अरु᳚षीः । अधि᳚ । ब॒र्हिषि᳚ ।
यत्र᳚ । अ॒भि । स॒म्॑नवा᳚महे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरयो हरितवर्णाअश्वाः अरुषीरारोचमानाः अधिबर्हिषि अधीति सप्तम्यर्थानुवादी बर्हिष्यास्तृते आससृज्रिरे आसृजन्तु यत्र यस्मिन्बर्हिषि स्थित- मिन्द्रमभिसन्नवामहे अभिसंस्तुमः ॥ ५ ॥

8.69.6
इन्द्रा᳚य॒ गाव᳚ आ॒शिरं᳚ दुदु॒ह्रे व॒ज्रिणे॒ मधु᳚ ।
यत्सी᳚मुपह्व॒रे वि॒दत् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । गावः᳚ । आ॒॑शिर᳚म् । दु॒दु॒ह्रे । व॒ज्रिणे᳚ । मधु᳚ ।
यत् । सी॒म् । उ॒प॒॑ह्व॒रे । वि॒दत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्राय गावाआशिरं आश्रयणसाधनं पयआदिकं मधु मदकरं दुदुह्रे दुहते । कीदृशाय वज्रिणे वज्रयुक्तायेन्द्राय यद्यदा उपह्वरे समीपेवर्तमानं मधु सोमरसं सीं सर्वतोविदत् लभते तदा ॥ ६ ॥ षोडशिशस्त्रस्योद्यद्ब्रध्नस्येत्येषान्त्या सूत्रितञ्च-उद्यद्ब्रध्नस्यविष्टपमित्येषा परिधानीयेति ।

8.69.7
उद्यद्ब्र॒ध्नस्य᳚ वि॒ष्टपं᳚ गृ॒हमिन्द्र᳚श्च॒ गन्व᳚हि ।
मध्व᳚ः पी॒त्वा स᳚चेवहि॒ त्रिः स॒प्त सख्यु᳚ः प॒दे ॥
▶ पदपाठः (Word-by-word)
उत् । यत् । ब्र॒ध्नस्य᳚ । वि॒ष्टप᳚म् । गृ॒हम् । इन्द्रः᳚ । च॒ । गन्व᳚हि ।
मध्वः᳚ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः᳚ । प॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा ब्रध्नस्य महन्नाम ब्रध्नइति महत आदित्यस्य विष्टपं स्थानं गृहं इन्द्रश्चाहं चोभौ उद्गन्वहि उद्गच्छावः । तदानीं मध्वो मधुरं सोमरसं पीत्वा सचेवहि संसृष्टौ भवेव । कुत्र सख्युःपदे सर्वेषां सखिभूतस्यादित्यस्य त्रिःसप्तेत्यनेन देवलोकानामुत्तममेकविंशस्थानमुच्यते आदित्यस्यैकविंशत्वात् । तथाचब्राह्मणम्-द्वादशमासाःपञ्चर्तवस्त्रयइमेलोका असावादित्यएकविंशइति । तादृशे एकविंशस्थाने सचेवहीति ॥ ७ ॥ पूर्वोक्तएवशस्त्रे अर्चतेतिद्वितीयआनुष्टुभस्तृचः । सूत्रितञ्च-प्रप्रवस्त्रिष्टुभमिषमर्चतप्रार्चतेति ।

8.69.8
अर्च᳚त॒ प्रार्च᳚त॒ प्रिय᳚मेधासो॒ अर्च᳚त ।
अर्च᳚न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व᳚र्चत ॥
▶ पदपाठः (Word-by-word)
अर्च᳚त । प्र । अ॒र्च॒त॒ । प्रिय᳚॑मेधासः । अर्च᳚त ।
अर्च᳚न्तु । पु॒त्र॒काः । उ॒त । पुर᳚म् । न । धृ॒ष्णु । अ॒र्च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्य्वादयो यूयं इन्द्रं अर्चत पूजयत स्तुत्याप्रार्चत प्रकर्षेणार्चतेन्द्रमेव । हे प्रियमेधासः प्रियमेधसम्बन्धिनः तद्गोत्रा यूयमर्चतेन्द्रं पुत्रका पुत्राअप्यर्चन्त्विन्द्रम् । उतापिच पुरंन धृष्णु यथा पुरं धर्षणशीलं अर्चन्ति तादृशमिन्द्रमर्चत ॥ ८ ॥

8.69.9 समानपद
अव᳚ स्वराति॒ गर्ग᳚रो गो॒धा परि᳚ सनिष्वणत् ।
पिङ्गा॒ परि᳚ चनिष्कद॒दिन्द्रा᳚य॒ ब्रह्मोद्य᳚तम् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्व॒रा॒ति॒ । गर्ग᳚रः । गो॒धा । परि᳚ । स॒नि॒स्व॒न॒त् ।
पिङ्गा᳚ । परि᳚ । च॒नि॒स्क॒द॒त् । इन्द्रा᳚य । ब्रह्म᳚ । उत्॑य᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गर्गरो गर्गरध्वनियुक्तोवा वाद्यविशेषो युद्धे अवस्वराति भयंशब्दयति । गोधा हस्तघ्नः परि परितः सनिष्वणत् स्वनति भृशं पिंगा पिंगव- र्णाज्यापि परिचनिष्कदत् परिस्कन्दते यस्मादेवं युद्धः संनद्धः अतइन्द्राय ब्रह्मपरिवृढंकर्म स्तुतिलक्षणं उद्यतं भवत्वितिशेषः ॥ ९ ॥

8.69.10
आ यत्पत᳚न्त्ये॒न्य᳚ः सु॒दुघा॒ अन᳚पस्फुरः ।
अ॒प॒स्फुरं᳚ गृभायत॒ सोम॒मिन्द्रा᳚य॒ पात᳚वे ॥
▶ पदपाठः (Word-by-word)
आ । यत् । पत᳚न्ति । ए॒न्यः᳚ । सु॒॑दुघाः᳚ । अन᳚प॑स्फुरः ।
अ॒प॒॑स्फुर᳚म् । गृ॒भा॒य॒त॒ । सोम᳚म् । इन्द्रा᳚य । पात᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा एन्यः एतवर्णाः शुभ्रवर्णानद्यः आपतन्ति आगच्छन्ति सर्वतः प्रवहन्ति । कीदृश्यः सुदुघाः सुदोहा अनपस्फुरः अपस्फुरो अपस्फुरा अपवृद्धाः अतादृश्यः अनपस्फुरः अत्यन्तंप्रवृद्धाइत्यर्थः । यद्वा सुदुघाः प्रवृद्धा एतवर्णागावो यदा पयआद्यर्थायापतन्ति तदा अपस्फुरं अत्रापशब्दो धात्वर्थानुवादी अत्यन्तं प्रवृद्धं सोममिन्द्राय पातवे पातुं गृभायत ग्रहणंकुरुत । अथवा अनपस्फुरइत्यत्रापशब्दोनुवादी धात्वर्थस्य । तथासत्ययमर्थः-यदाएन्योनद्यः अनपस्फुरः अप्रवृद्धोदका आपतन्ति वृष्टिरल्पा यदाभवति तदा सोममिन्द्रार्थं संपादयतेति ॥ १० ॥

8.69.11
अपा॒दिन्द्रो॒ अपा᳚द॒ग्निर्विश्वे᳚ दे॒वा अ᳚मत्सत ।
वरु᳚ण॒ इदि॒ह क्ष᳚य॒त्तमापो᳚ अ॒भ्य᳚नूषत व॒त्सं सं॒शिश्व᳚रीरिव ॥
▶ पदपाठः (Word-by-word)
अपा᳚त् । इन्द्रः᳚ । अपा᳚त् । अ॒ग्निः । विश्वे᳚ । दे॒वाः । अ॒म॒त्स॒त॒ ।
वरु᳚णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः᳚ । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व᳚रीः॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रोपादपिबत् सोममग्निरप्यपिबत् विश्वेदेवा अप्यमत्सत तृप्ता अभवन् सोमपानेन वरुणइत् वरुणोपीहास्मिन् यागगृहे क्षयत् निवसतु सोमपानार्थं निवसन्तं तं आपोप्यभ्यनूषत उदकान्यापनशीलाः स्तुतयोवा अभ्यस्तुवन् । किमिव वत्सं स्वीयं संशिश्वरीः संशिश्वर्यः संगच्छमाना गावइव । तायथा धावत्यो हंभारवं कुर्वन्ति तद्वत् ॥ ११ ॥

8.69.12
सु॒दे॒वो अ᳚सि वरुण॒ यस्य᳚ ते स॒प्त सिन्ध᳚वः ।
अ॒नु॒क्षर᳚न्ति का॒कुदं᳚ सू॒र्म्यं᳚ सुषि॒रामि᳚व ॥
▶ पदपाठः (Word-by-word)
सु॒॑दे॒वः । अ॒सि॒ । व॒रु॒ण॒ । यस्य᳚ । ते॒ । स॒प्त । सिन्ध᳚वः ।
अ॒नु॒॑क्षर᳚न्ति । का॒कुद᳚म् । सू॒र्म्य᳚म् । सु॒षि॒राम्॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वरुण जलाभिमानिन् देव त्वं सुदेवोअसि यस्यसुदेवस्य ते तव काकुदं तालु समुद्राख्यं सप्तसिन्धवो गंगाद्याः सप्तनद्योऽनुक्षरन्ति जिह्वायां सर्वदा स्रवन्ति । दृष्टान्तः-सूर्म्यं सुषिरामिव यथा सूर्यं प्रतिरश्मिजालं तद्वत् ॥ १२ ॥ षोडशिशस्त्रे योव्यतीनिति तृतीयआनुष्टुभस्तृचः सूत्रितञ्च-योव्यतीरँफाणयदितितृच आनुष्टुभइति ।

8.69.13
यो व्यती{4}॒रफा᳚णय॒त्सुयु᳚क्ता{4}॒ उप᳚ दा॒शुषे᳚ ।
त॒क्वो ने॒ता तदिद्वपु᳚रुप॒मा यो अमु᳚च्यत ॥
▶ पदपाठः (Word-by-word)
यः । व्यती᳚न् । अफा᳚णयत् । सु॑यु᳚क्तान् । उप᳚ । दा॒शुषे᳚ ।
त॒क्वः । ने॒ता । तत् । इत् । वपुः᳚ । उ॒प॒॑मा । यः । अमु᳚च्यत ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रोव्यतीन् विविधगमनान् सुयुक्तान् सुष्ठुरथे संबद्धान् अश्वान् दाशुषे हविर्दात्रे यजमानाय गन्तुं प्राप्तं उप अफाणयत् उपगमयति फणतिर्गति- कर्मा । यदैवंकरोति तदित् तदानीमेव तक्वः तकतिर्गतिकर्मा यज्ञगमनशीलो नेताउदकस्य फलस्य वा नायक इन्द्रोवपुरुदकं उत्पादयतीतिशेषः यइन्द्रउपमा उपमानभूतः अमुच्यतअन्यैर्वृष्टिनिवरकै रसुरादिभिर्मुक्तोभवति ॥ १३ ॥

8.69.14
अतीदु᳚ श॒क्र ओ᳚हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः᳚ ।
भि॒नत्क॒नीन᳚ ओद॒नं प॒च्यमा᳚नं प॒रो गि॒रा ॥
▶ पदपाठः (Word-by-word)
अति᳚ । इत् । ऊं॒ इति᳚ । श॒क्रः । ओ॒ह॒ते॒ । इन्द्रः᳚ । विश्वाः᳚ । अति᳚ । द्विषः᳚ ।
भि॒नत् । क॒नीनः᳚ । ओ॒द॒नम् । प॒च्यमा᳚नम् । प॒रः । गि॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः शक्रः शक्तः सन् अतीद्वोहते अतिक्रम्य गच्छत्येव संग्रामे निरोधकान् शत्रून् । तदेवाह-अयमिन्द्रो विश्वाः द्विषो द्वेष्टृन् शत्रूनति अतिक्रम्य गच्छति । कनीनः कमनीयः परोमेघानां परस्ताद्वर्तमान इन्द्रओदनं मेघनामैतत् मेघं भिनत् अभिनत् भिनत्ति वृष्ट्यर्थम् । कीदृशं गिरा माध्यमिकयावाचा स्तनितलक्षणया पच्यमानं वज्रनिर्घोषेण ताड्यमानमित्यर्थः ॥ १४ ॥

8.69.15 समानपद
अ॒र्भ॒को न कु᳚मार॒को॑धि᳚ तिष्ठ॒न्नवं॒ रथ᳚म् ।
स प᳚क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि᳚भु॒क्रतु᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒र्भ॒कः । न । कु॒मा॒र॒कः । अधि᳚ । ति॒ष्ठ॒त् । नव᳚म् । रथ᳚म् ।
सः । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भु॒॑क्रतु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः अर्भकोन अल्पशरीरः कुमारकः कुमारकइव पित्रे मात्रे सयथाधितिष्ठति तद्वत् नवं स्तुत्यं रथमधितिष्ठदधितिष्ठदधितिष्ठति सइन्द्रो महिषं महान्तं मृगं मृगवदितस्ततो धावन्तं सर्वैर्मृग्यं वा विभुक्रतुं बहुकर्माणं मेघं पक्षत् पचति वृष्ट्यभिमुखं करोतीत्यर्थः ॥ १५ ॥

8.69.16 समानपद
आ तू सु᳚शिप्र दम्पते॒ रथं᳚ तिष्ठा हिर॒ण्यय᳚म् ।
अध᳚ द्यु॒क्षं स᳚चेवहि स॒हस्र᳚पादमरु॒षं स्व᳚स्ति॒गाम᳚ने॒हस᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । तु । सु॒॑शि॒प्र॒ । द॒म्॑प॒ते॒ । रथ᳚म् । ति॒ष्ठ॒ । हि॒र॒ण्यय᳚म् ।
अध᳚ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र᳚॑पादम् । अ॒रु॒षम् । स्व॒स्ति॒॑गाम् । अ॒ने॒हस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुशिप्र सुहनो हे दंपते गृहस्वामिन् अत्र गृहोरथः तस्यस्वामिन् तु त्वं तावद्रथमातिष्ठ हविः स्वीकरणानन्तरं पश्चादहमारोहामीतिभावः । कीदृशं हिरण्ययं हिरण्मयं अध तवारोहणानन्तरं अहमथारुत्द्य उभौ सचेवहि संगच्छेवहि संगतौ भवेव । किंतत् द्युक्षं दीप्तं रथं कीदृशं सहस्रपादं बहुपादं अरुषमारोचनं स्वस्तिगां कुशलगमनं अनेहसमपापम् ॥ १६ ॥

8.69.17
तं घे᳚मि॒त्था न᳚म॒स्विन॒ उप᳚ स्व॒राज᳚मासते ।
अर्थं᳚ चिदस्य॒ सुधि᳚तं॒ यदेत᳚व आव॒र्तय᳚न्ति दा॒वने᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः᳚ । उप᳚ । स्व॒॑राज᳚म् । आ॒स॒ते॒ ।
अर्थ᳚म् । चि॒त् । अ॒स्य॒ । सु॑धि᳚तम् । यत् । एत᳚वे । आ॒॑व॒र्तय᳚न्ति । दा॒वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं घ तं खल्वीमेनमिन्द्रं इत्था इत्थमनेन प्रकारेण नमस्विनोन्नवन्तः स्तुतिमन्तोवाध्वर्य्वादयः स्वराजं स्वयं राजमानं वा उपासते सेवन्ते । तथा कृत्वाअर्थंचित् अरणीयं धनं सुधितं सुष्ठु स्थापितं अस्येन्द्रस्य संबन्धिनं प्राप्नुवन्तीतिशेषः । कदेत्याह-यद्यदा एतवे अस्येन्द्रस्य गमनाय स्वयं प्राप्तुंवा दावने हविर्दानायावर्तयन्ति स्तुतयः तदेत्यर्थः । अथवा अश्वावा आवर्तयन्ति तदेत्यर्थः ॥ १७ ॥

8.69.18
अनु᳚ प्र॒त्नस्यौक᳚सः प्रि॒यमे᳚धास एषाम् ।
पूर्वा॒मनु॒ प्रय᳚तिं वृ॒क्तब᳚र्हिषो हि॒तप्र᳚यस आशत ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । प्र॒त्नस्य᳚ । ओक᳚सः । प्रि॒य॑मे᳚धासः । ए॒षा॒म् ।
पूर्वा᳚म् । अनु᳚ । प्र॑य᳚तिम् । वृ॒क्त॑ब᳚र्हिषः । हि॒त॑प्र᳚यसः । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया स्तुतिमुपसंहरति एषां देवानामिन्द्रादीनां प्रत्नस्य पुराणस्यौकसः स्थानस्य पुराणं स्थानं प्रियमेधासः प्रियमेधा अन्वाशत अनुप्राप्ताः । कीदृशाः प्रियमेधाः पूर्वीं मुख्यां प्रयतिं प्रदानमनुलक्षीकृत्य वृक्तबर्हिषः स्तीर्णदर्भाः हितप्रयसः आसादितसोमादिहविष्काः ॥ १८ ॥

अष्टमेनुवाके एकादशसूक्तानि तत्र योराजेति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका-योराजापञ्चोना पुरुहन्मा बार्हतं त्रिप्रगाथाद्युष्णिगनु- ष्टुप्पुरउष्प्पिगन्तमिति । पुरुहन्मऋषिः सच क्वचित्कथंचिदविशेषितमिति परिभाषयांगिरसः आद्यातृतीयापञ्चम्योबृहत्यः द्वितीयाचतुर्थीष- ष्ठ्यः सतोबृहत्यः सप्तम्याद्याः षट्बृहत्यः त्रयोदशीपुरउष्णिक् आद्यद्वादशकाद्यष्टका आद्यश्चेत्पुरउष्णिगितिहि तल्लक्षणम् । इन्द्रोदेवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावादित एकादशर्चः तथाचपञ्चमारण्यकेसूत्रितं-योराजाचर्षणीनामित्येकादशेति ।