श्रवणम्

8.69.1
प्रप्र᳚ वस्त्रि॒ष्टुभ॒मिषं᳚ म॒न्दद्वी᳚रा॒येन्द᳚वे ।
धि॒या वो᳚ मे॒धसा᳚तये॒ पुरं॒ध्या वि᳚वासति ॥
▶ पदपाठः (Word-by-word)
प्र॑प्र᳚ । वः॒ । त्रि॒॑स्तुभ᳚म् । इष᳚म् । म॒न्दत्॑वी᳚राय । इन्द᳚वे ।
धि॒या । वः॒ । मे॒ध॑सा᳚तये । पुर᳚म्॑ध्या । आ । वि॒वा॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्य्वादयो वो यूयं प्रथमार्थेद्वितीया त्रिष्टुभं स्तोभत्रयोपेतमिषमन्नं प्रप्र अपरः प्रशब्दः पूरणः प्रभरतेतिशेषः उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । कस्मै मन्दद्वीराय योवीरान् हर्षयति समन्दद्वीरः तस्मै इन्दवे इन्द्राय इन्धतेरैश्वर्यकर्मण इदंरूपम् । अथवा फलैर्वृष्टिभिर्वा उनत्तीतीन्दुरिन्द्रस्तस्मै सचेन्द्रो वो युष्मान्मेधसातये यज्ञसंभजनाय पुरन्ध्या बहुप्रज्ञया धिया कर्मणा आविवासति अभिमतफलयोजनेन सत्करोतीत्यर्थः ॥ १ ॥