ता अ᳚स्य॒ सूद᳚दोहस॒ः सोमं᳚ श्रीणन्ति॒ पृश्न᳚यः ।
जन्म᳚न्दे॒वानां॒ विश᳚स्त्रि॒ष्वा रो᳚च॒ने दि॒वः ॥
जन्म᳚न्दे॒वानां॒ विश᳚स्त्रि॒ष्वा रो᳚च॒ने दि॒वः ॥
पदपाठः (Word-by-word)
ताः । अ॒स्य॒ । सूद᳚॑दोहसः । सोम᳚म् । श्री॒ण॒न्ति॒ । पृश्न᳚यः ।
जन्म᳚न् । दे॒वाना᳚म् । विशः᳚ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥
जन्म᳚न् । दे॒वाना᳚म् । विशः᳚ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥
सायणभाष्यम् (Sayana Commentary)
ताः प्रसिद्धाः सूददोहसः सूदइति कूपनाम तत्सदृशदोहनाः पृश्नयः पृश्निवर्णाः गावोस्येन्द्रस्य सोमं श्रीणन्ति मिश्रयन्त्याशिरेण । कदा त्रिषु त्रिष्व- पि सवनेषु । गावो विशेष्यन्ते देवानां जन्मन् जन्मस्थाने दिवीति शेषः दिवआदित्यस्य आरोचने आरोचमाने अनेन द्यौर्विशेष्यते तस्मिन् स्थाने विशोनिविशन्त्यः । यज्ञार्थोपयुक्तानां गवां द्युप्राप्तिः प्रसिद्धा ॥ ३ ॥ द्वितीयेपर्याये मैत्रावरुणशस्त्रे अभिप्रगोपतिमिति तृचोनुरूपः सूत्रितंच-अभित्वावृषभासुतेभिप्रगोपतिंगिरेति ।