श्रवणम्

8.69.4
अ॒भि प्र गोप᳚तिं गि॒रेन्द्र᳚मर्च॒ यथा᳚ वि॒दे ।
सू॒नुं स॒त्यस्य॒ सत्प᳚तिम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्र । गो॑प᳚तिम् । गि॒रा । इन्द्र᳚म् । अ॒र्च॒ । यथा᳚ । वि॒दे ।
सू॒नुम् । स॒त्यस्य᳚ । सत्॑प᳚तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोपतिं गवांस्वामिनमिन्द्रं अभिप्रार्च प्रकर्षेण पूजय गिरा स्तुत्या यथा विदे सयथा स्वात्मानं स्तुतप्रकारं जानाति यथावा यागं प्रतिगन्तव्यमिति जानाति तथार्चेति । कीदृशमिन्द्रं सत्यस्य यज्ञस्य सत्यस्यवा सूनुं पुत्रं तत्रानुरक्तत्वात् सूनुरित्युपचर्यते सत्पतिं सतां यजमानानां पालकम् ॥ ४ ॥