पूर्वा॒मनु॒ प्रय᳚तिं वृ॒क्तब᳚र्हिषो हि॒तप्र᳚यस आशत ॥
पदपाठः (Word-by-word)
पूर्वा᳚म् । अनु᳚ । प्र॑य᳚तिम् । वृ॒क्त॑ब᳚र्हिषः । हि॒त॑प्र᳚यसः । आ॒श॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
अनया स्तुतिमुपसंहरति एषां देवानामिन्द्रादीनां प्रत्नस्य पुराणस्यौकसः स्थानस्य पुराणं स्थानं प्रियमेधासः प्रियमेधा अन्वाशत अनुप्राप्ताः । कीदृशाः प्रियमेधाः पूर्वीं मुख्यां प्रयतिं प्रदानमनुलक्षीकृत्य वृक्तबर्हिषः स्तीर्णदर्भाः हितप्रयसः आसादितसोमादिहविष्काः ॥ १८ ॥
अष्टमेनुवाके एकादशसूक्तानि तत्र योराजेति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रानुक्रमणिका-योराजापञ्चोना पुरुहन्मा बार्हतं त्रिप्रगाथाद्युष्णिगनु- ष्टुप्पुरउष्प्पिगन्तमिति । पुरुहन्मऋषिः सच क्वचित्कथंचिदविशेषितमिति परिभाषयांगिरसः आद्यातृतीयापञ्चम्योबृहत्यः द्वितीयाचतुर्थीष- ष्ठ्यः सतोबृहत्यः सप्तम्याद्याः षट्बृहत्यः त्रयोदशीपुरउष्णिक् आद्यद्वादशकाद्यष्टका आद्यश्चेत्पुरउष्णिगितिहि तल्लक्षणम् । इन्द्रोदेवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावादित एकादशर्चः तथाचपञ्चमारण्यकेसूत्रितं-योराजाचर्षणीनामित्येकादशेति ।