श्रवणम्

8.69.6
इन्द्रा᳚य॒ गाव᳚ आ॒शिरं᳚ दुदु॒ह्रे व॒ज्रिणे॒ मधु᳚ ।
यत्सी᳚मुपह्व॒रे वि॒दत् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । गावः᳚ । आ॒॑शिर᳚म् । दु॒दु॒ह्रे । व॒ज्रिणे᳚ । मधु᳚ ।
यत् । सी॒म् । उ॒प॒॑ह्व॒रे । वि॒दत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्राय गावाआशिरं आश्रयणसाधनं पयआदिकं मधु मदकरं दुदुह्रे दुहते । कीदृशाय वज्रिणे वज्रयुक्तायेन्द्राय यद्यदा उपह्वरे समीपेवर्तमानं मधु सोमरसं सीं सर्वतोविदत् लभते तदा ॥ ६ ॥ षोडशिशस्त्रस्योद्यद्ब्रध्नस्येत्येषान्त्या सूत्रितञ्च-उद्यद्ब्रध्नस्यविष्टपमित्येषा परिधानीयेति ।