उद्यद्ब्र॒ध्नस्य᳚ वि॒ष्टपं᳚ गृ॒हमिन्द्र᳚श्च॒ गन्व᳚हि ।
मध्व᳚ः पी॒त्वा स᳚चेवहि॒ त्रिः स॒प्त सख्यु᳚ः प॒दे ॥
मध्व᳚ः पी॒त्वा स᳚चेवहि॒ त्रिः स॒प्त सख्यु᳚ः प॒दे ॥
पदपाठः (Word-by-word)
उत् । यत् । ब्र॒ध्नस्य᳚ । वि॒ष्टप᳚म् । गृ॒हम् । इन्द्रः᳚ । च॒ । गन्व᳚हि ।
मध्वः᳚ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः᳚ । प॒दे ॥
मध्वः᳚ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः᳚ । प॒दे ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा ब्रध्नस्य महन्नाम ब्रध्नइति महत आदित्यस्य विष्टपं स्थानं गृहं इन्द्रश्चाहं चोभौ उद्गन्वहि उद्गच्छावः । तदानीं मध्वो मधुरं सोमरसं पीत्वा सचेवहि संसृष्टौ भवेव । कुत्र सख्युःपदे सर्वेषां सखिभूतस्यादित्यस्य त्रिःसप्तेत्यनेन देवलोकानामुत्तममेकविंशस्थानमुच्यते आदित्यस्यैकविंशत्वात् । तथाचब्राह्मणम्-द्वादशमासाःपञ्चर्तवस्त्रयइमेलोका असावादित्यएकविंशइति । तादृशे एकविंशस्थाने सचेवहीति ॥ ७ ॥ पूर्वोक्तएवशस्त्रे अर्चतेतिद्वितीयआनुष्टुभस्तृचः । सूत्रितञ्च-प्रप्रवस्त्रिष्टुभमिषमर्चतप्रार्चतेति ।