आ तू सु᳚शिप्र दम्पते॒ रथं᳚ तिष्ठा हिर॒ण्यय᳚म् ।
अध᳚ द्यु॒क्षं स᳚चेवहि स॒हस्र᳚पादमरु॒षं स्व᳚स्ति॒गाम᳚ने॒हस᳚म् ॥
अध᳚ द्यु॒क्षं स᳚चेवहि स॒हस्र᳚पादमरु॒षं स्व᳚स्ति॒गाम᳚ने॒हस᳚म् ॥
पदपाठः (Word-by-word)
आ । तु । सु॒॑शि॒प्र॒ । द॒म्॑प॒ते॒ । रथ᳚म् । ति॒ष्ठ॒ । हि॒र॒ण्यय᳚म् ।
अध᳚ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र᳚॑पादम् । अ॒रु॒षम् । स्व॒स्ति॒॑गाम् । अ॒ने॒हस᳚म् ॥
अध᳚ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र᳚॑पादम् । अ॒रु॒षम् । स्व॒स्ति॒॑गाम् । अ॒ने॒हस᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सुशिप्र सुहनो हे दंपते गृहस्वामिन् अत्र गृहोरथः तस्यस्वामिन् तु त्वं तावद्रथमातिष्ठ हविः स्वीकरणानन्तरं पश्चादहमारोहामीतिभावः । कीदृशं हिरण्ययं हिरण्मयं अध तवारोहणानन्तरं अहमथारुत्द्य उभौ सचेवहि संगच्छेवहि संगतौ भवेव । किंतत् द्युक्षं दीप्तं रथं कीदृशं सहस्रपादं बहुपादं अरुषमारोचनं स्वस्तिगां कुशलगमनं अनेहसमपापम् ॥ १६ ॥