श्रवणम्

8.69.15 समानपद
अ॒र्भ॒को न कु᳚मार॒को॑धि᳚ तिष्ठ॒न्नवं॒ रथ᳚म् ।
स प᳚क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि᳚भु॒क्रतु᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒र्भ॒कः । न । कु॒मा॒र॒कः । अधि᳚ । ति॒ष्ठ॒त् । नव᳚म् । रथ᳚म् ।
सः । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भु॒॑क्रतु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः अर्भकोन अल्पशरीरः कुमारकः कुमारकइव पित्रे मात्रे सयथाधितिष्ठति तद्वत् नवं स्तुत्यं रथमधितिष्ठदधितिष्ठदधितिष्ठति सइन्द्रो महिषं महान्तं मृगं मृगवदितस्ततो धावन्तं सर्वैर्मृग्यं वा विभुक्रतुं बहुकर्माणं मेघं पक्षत् पचति वृष्ट्यभिमुखं करोतीत्यर्थः ॥ १५ ॥