अतीदु᳚ श॒क्र ओ᳚हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः᳚ ।
भि॒नत्क॒नीन᳚ ओद॒नं प॒च्यमा᳚नं प॒रो गि॒रा ॥
भि॒नत्क॒नीन᳚ ओद॒नं प॒च्यमा᳚नं प॒रो गि॒रा ॥
पदपाठः (Word-by-word)
अति᳚ । इत् । ऊं॒ इति᳚ । श॒क्रः । ओ॒ह॒ते॒ । इन्द्रः᳚ । विश्वाः᳚ । अति᳚ । द्विषः᳚ ।
भि॒नत् । क॒नीनः᳚ । ओ॒द॒नम् । प॒च्यमा᳚नम् । प॒रः । गि॒रा ॥
भि॒नत् । क॒नीनः᳚ । ओ॒द॒नम् । प॒च्यमा᳚नम् । प॒रः । गि॒रा ॥
सायणभाष्यम् (Sayana Commentary)
अयमिन्द्रः शक्रः शक्तः सन् अतीद्वोहते अतिक्रम्य गच्छत्येव संग्रामे निरोधकान् शत्रून् । तदेवाह-अयमिन्द्रो विश्वाः द्विषो द्वेष्टृन् शत्रूनति अतिक्रम्य गच्छति । कनीनः कमनीयः परोमेघानां परस्ताद्वर्तमान इन्द्रओदनं मेघनामैतत् मेघं भिनत् अभिनत् भिनत्ति वृष्ट्यर्थम् । कीदृशं गिरा माध्यमिकयावाचा स्तनितलक्षणया पच्यमानं वज्रनिर्घोषेण ताड्यमानमित्यर्थः ॥ १४ ॥