अष्टमं मण्डलम् - सूक्तम् 66

15 ऋचः

ऋषिः: कलिः प्रगाथः देवता: इंद्रः छन्दः: बृहती

सूक्तम् 8.66 - सम्पूर्णम्

1 / 15
ऋक्: 8.66.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
8.66.1
तरो᳚भिर्वो वि॒दद्व᳚सु॒मिन्द्रं᳚ स॒बाध᳚ ऊ॒तये᳚ ।
बृ॒हद्गाय᳚न्तः सु॒तसो᳚मे अध्व॒रे हु॒वे भरं॒ न का॒रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
तरः᳚॑भिः । वः॒ । वि॒दत्॑व᳚सुम् । इन्द्र᳚म् । स॒॑बाधः᳚ । ऊ॒तये᳚ ।
बृ॒हत् । गाय᳚न्तः । सु॒त॑सो᳚मे । अ॒ध्व॒रे । हु॒वे । भर᳚म् । न । का॒रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजो वोयूउअं तरोभिर्वे गैरश्वैरुपेतं वेगैरेववा विदद्वसुं वेदयद्वसुं धनावेदकमिन्द्रं सबाधो बाधासहिता ऊतये रक्षणाय बृहत्सामैतत्संज्ञं गाय- न्तः सन्तः परिचरतेति शेषः । कुत्रेति तदुच्यते-सुतसोमे सुतसोमकेध्वरे यज्ञे सोमयागे अहंच तमिन्द्रं हुवे आह्वयामि । कमिव भरंन भर्तारं कुटुंब- पोषकं कारिणं हितकरणशीलं यथा स्वहितकरणायाह्वयन्ति पुत्रादयस्तद्वत्तथाभूतमिन्द्रं हुवइति ॥ १ ॥

8.66.2
न यं दु॒ध्रा वर᳚न्ते॒ न स्थि॒रा मुरो॒ मदे᳚ सुशि॒प्रमन्ध᳚सः ।
य आ॒दृत्या᳚ शशमा॒नाय᳚ सुन्व॒ते दाता᳚ जरि॒त्र उ॒क्थ्य᳚म् ॥
▶ पदपाठः (Word-by-word)
न । यम् । दु॒ध्राः । वर᳚न्ते । न । स्थि॒राः । मुरः᳚ । मदे᳚ । सु॒॑शि॒प्रम् । अन्ध᳚सः ।
यः । आ॒॑दृत्य᳚ । श॒श॒मा॒नाय᳚ । सु॒न्व॒ते । दाता᳚ । ज॒रि॒त्रे । उ॒क्थ्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यं सुशिप्रमिन्द्रं दुध्राः दुर्धरा असुरादयो नवरन्ते नवारयन्ति संग्रामे तथा स्थिराः देवानवरन्ते किंच मुरो मनणस्वभावा मनुष्याः नवरन्ते अंधसः अन्नस्य मदे मदाय सोमपानजनिताय आदृत्य यः शरामानाय संसमानाय सुन्वते अभिषवं कुर्वते जरित्रे स्तोत्रेच दाता भवति किं उक्थ्यं स्तुत्यं धनं सरेजयतीत्युत्तरत्र संबन्धः ॥ २ ॥

8.66.3
यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो᳚ हिर॒ण्ययः᳚ ।
स ऊ॒र्वस्य᳚ रेजय॒त्यपा᳚वृति॒मिन्द्रो॒ गव्य᳚स्य वृत्र॒हा ॥
▶ पदपाठः (Word-by-word)
यः । श॒क्रः । मृ॒क्षः । अश्व्यः᳚ । यः । वा॒ । कीजः᳚ । हि॒र॒ण्ययः᳚ ।
सः । ऊ॒र्वस्य᳚ । रे॒ज॒य॒ति॒ । अप᳚॑वृतिम् । इन्द्रः᳚ । गव्य᳚स्य । वृ॒त्र॒॑हा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः शक्रइन्द्रः स्तोतॄणां मृक्षः शोधकः परिवरणीयोवा यश्च अश्व्यः अश्वकुशलः अश्व्यः । अथवाश्व्यइति स्वार्थिकोयत् मृक्षोश्वः प्रक्षालितोश्वइव वर्तते । योवा कीजः कीजइत्यद्भुतमाह किमस्य कथं जातं इतिच यश्च हिरण्ययः हिरण्मयशरीरः सएवमाश्चर्यभूतइन्द्रोवृत्रहा गब्यस्य गोसमुहस्य कीदृशस्य ऊर्वस्य बहुलस्य अपावृतिं अपवरणीयं रेजयति कम्पयतीत्यर्थः ॥ ३ ॥

8.66.4 समानपद
निखा᳚तं चि॒द्यः पु᳚रुसम्भृ॒तं वसूदिद्वप᳚ति दा॒शुषे᳚ ।
व॒ज्री सु᳚शि॒प्रो हर्य᳚श्व॒ इत्क᳚र॒दिन्द्र॒ः क्रत्वा॒ यथा॒ वश᳚त् ॥
▶ पदपाठः (Word-by-word)
नि॑खा᳚तम् । चि॒त् । यः । पु॒रु॒॑स॒म्भृ॒तम् । वसु᳚ । उत् । इत् । वप᳚ति । दा॒शुषे᳚ ।
व॒ज्री । सु॒॑शि॒प्रः । हरि᳚॑अश्वः । इत् । क॒र॒त् । इन्द्रः᳚ । क्रत्वा᳚ । यथा᳚ । वश᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

निशातंचित् भूमौखात्वा स्थापितमतिसंभृतं संगृहीतं यागदानादिकं कृत्वा ईदृशं पुरुबहु वसु धनं उदिद्वपति उद्वपत्येव दाशुषे यजमानाय एवम् । योदेवःकरत् करोति सवज्री सुशिप्रः सुहनुः हर्यश्वइत् हरितवर्णाश्वयुक्त इन्द्रएव करोति केनोपाधिना कत्वा कर्मणा यागेनोपाधिना यथाव- शत् येनप्रकारेण कामयते तथासएव करोति ॥ ४ ॥

8.66.5
यद्वा॒वन्थ᳚ पुरुष्टुत पु॒रा चि᳚च्छूर नृ॒णाम् ।
व॒यं तत्त᳚ इन्द्र॒ सं भ᳚रामसि य॒ज्ञमु॒क्थं तु॒रं वचः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । व॒वन्थ᳚ । पु॒रु॒॑स्तु॒त॒ । पु॒रा । चि॒त् । शू॒र॒ । नृ॒णाम् ।
व॒यम् । तत् । ते॒ । इ॒न्द्र॒ । सम् । भ॒रा॒म॒सि॒ । य॒ज्ञम् । उ॒क्थम् । तु॒रम् । वचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुष्टुत बहुभिः स्तुतेन्द्र शूर विक्रान्त नृणां नेतॄणां स्तोतॄणां सकाशात् पुराचिदित्युपमार्थे । तथेदानीमपि यद्ववन्थ अचीकमथ तदेव वयं तुरं तूर्णं ते तुभ्यं हे इन्द्र संभरामसि संभरामः । किन्तदित्युच्यते-यज्ञं यागयोग्यं हविः उक्थं शस्त्रं वचः वाच्यं तव प्रियतमं हविः स्तोत्रंच संभरामे- त्यर्थः ॥ ५ ॥

8.66.6
सचा॒ सोमे᳚षु पुरुहूत वज्रिवो॒ मदा᳚य द्युक्ष सोमपाः ।
त्वमिद्धि ब्र᳚ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठ᳚ः सुन्व॒ते भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
सचा᳚ । सोमे᳚षु । पु॒रु॒॑हू॒त॒ । व॒ज्रि॒॑वः॒ । मदा᳚य । द्यु॒क्ष॒ । सो॒म॒॑पाः॒ ।
त्वम् । इत् । हि । ब्र॒ह्म॒॑कृते᳚ । काम्य᳚म् । वसु᳚ । देष्ठः᳚ । सु॒न्व॒ते । भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूत बहुभिराहूत हे वज्रिवः वज्रवन् द्युक्षा द्युमन् सोमपाः सोमस्यपातस्त्वं सोमेष्वभिषुतेषु मदाय सचा सह भवेतिशेषः त्वमित्त्वमेव ब्रह्मकृते स्तोत्रकर्त्रे सुन्वतेच काम्यं कमनीयं वसु धनं देष्ठोदातृतमो भुवोभवसि । हिपूरणः ॥ ६ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकशस्त्रे वयमेनमिति वैकल्पिकोनुरूपः तथाचसूत्रितम्-वयमेनमिदात्द्योयोराजाचर्षणीनामिति ।

8.66.7
व॒यमे᳚नमि॒दा ह्यो॑पी᳚पेमे॒ह व॒ज्रिण᳚म् ।
तस्मा᳚ उ अ॒द्य स᳚म॒ना सु॒तं भ॒रा नू॒नं भू᳚षत श्रु॒ते ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपी᳚पेम । इ॒ह । व॒ज्रिण᳚म् ।
तस्मै᳚ । ऊं॒ इति᳚ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ । श्रु॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयं यजमाना एनमिन्द्रं वज्रिणं इदा इदानीं त्द्यश्च इह अत्र अपीपेम आप्याययाम सोमेन । तस्माउ तस्माएवाद्यात्र समना समनाय संग्रामार्थं सुतमभिषुतं सोमं भर हरत हे अध्वर्य्वादयः । नूनमिदानीं श्रुते स्तोत्रे श्रुतेसति आभूषत आभवत्वागच्छतु ॥ ७ ॥

8.66.8
वृक᳚श्चिदस्य वार॒ण उ᳚रा॒मथि॒रा व॒युने᳚षु भूषति ।
सेमं न॒ः स्तोमं᳚ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया᳚ धि॒या ॥
▶ पदपाठः (Word-by-word)
वृकः᳚ । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒रा॒॑मथिः᳚ । आ । व॒युने᳚षु । भू॒ष॒ति॒ ।
सः । इ॒मम् । नः॒ । स्तोम᳚म् । जु॒जु॒षा॒णः । आ । ग॒हि॒ । इन्द्र᳚ । प्र । चि॒त्रया᳚ । धि॒या ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृकश्चित् स्तेनोपि वारणो वारयिता सर्वस्य सन्नपि उरामथिः शत्रूणां मार्गे गच्छतां प्रथिता सन्नपि अस्येन्द्रस्य वयुनेषु मार्गेषु प्रज्ञानेषु वा आभूष- ति आनुकुल्यमेव भजते अतीव हिंस्रोपीन्द्रस्यानुकूलोभवतीत्यर्थः । यद्वा अस्येति कर्मणि षष्ठी अमुमिन्द्रंउक्तरूपः वृकोपि वयुनेषु स्तोत्रेषु आभुषति सत्वमिमं नः स्तोमं जुजुषाणः प्रीयमाणः आगहि आगच्छ । हे इन्द्र चित्रया धिया कर्मणा स्तुतिलक्षणेन निमित्तेन प्र प्रकर्षेनागहि शीघ्रमागच्छ ॥ ८ ॥

8.66.9
कदू॒ न्व१॒᳚स्याकृ᳚त॒मिन्द्र᳚स्यास्ति॒ पौंस्य᳚म् ।
केनो॒ नु कं॒ श्रोम᳚तेन॒ न शु᳚श्रुवे ज॒नुष॒ः परि᳚ वृत्र॒हा ॥
▶ पदपाठः (Word-by-word)
कत् । ऊं॒ इति᳚ । नु । अ॒स्य॒ । अकृ᳚तम् । इन्द्र᳚स्य । अ॒स्ति॒ । पौंस्य᳚म् ।
केनो॒ इति᳚ । नु । क॒म् । श्रोम᳚तेन । न । शु॒श्रु॒वे॒ । ज॒नुषः᳚ । परि᳚ । वृ॒त्र॒॑हा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य कदूनु किन्तु खलु पौंस्यं पौरुषं अकृतमनाचारितमस्ति सर्वमपि वृत्रवधादिकमनेन कृतमेव इतःपरं नकिञ्च पौंस्यं कृत्यमस्तीत्यर्थः लोके स्वल्पमपि यःपुंस्त्वं कुर्यात् सतेन स्तूयते अयंतु नस्तुत एतदुच्यते केनोनुकं केनखलु श्रोमतेन श्रवणीयेन पुंस्त्वेन नशुश्रुवे नश्रूयते किं कतिपयैरेवा- होभिः कृतेन नेत्याह-अयं वृत्रहा वृत्रस्यातिप्रबलस्यहन्ता अयं जनुषःपरि जन्मप्रभृति क्रियमाणैः सामर्थ्यैः श्रूयते वृत्रहत्यं तत्पुंस्त्वप्रदर्शनाद्योतनाय यथा वृत्रहननं सर्वैः श्रूयते तद्वदन्यान्यपीति भावः ॥ ९ ॥

8.66.10
कदू᳚ म॒हीरधृ᳚ष्टा अस्य॒ तवि᳚षी॒ः कदु᳚ वृत्र॒घ्नो अस्तृ᳚तम् ।
इन्द्रो॒ विश्वा᳚न्बेक॒नाटा{4}᳚ अह॒र्दृश᳚ उ॒त क्रत्वा᳚ प॒णी{4}र॒भि ॥
▶ पदपाठः (Word-by-word)
कत् । ऊं॒ इति᳚ । म॒हीः । अधृ᳚ष्टाः । अ॒स्य॒ । तवि᳚षीः । कत् । ऊं॒ इति᳚ । वृ॒त्र॒॑घ्नः । अस्तृ᳚तम् ।
इन्द्रः᳚ । विश्वा᳚न् । बे॒क॒॑नाटा᳚न् । अ॒हः॒॑दृशः᳚ । उ॒त । क्रत्वा᳚ । प॒णीन् । अ॒भि ॥
▶ सायणभाष्यम् (Sayana Commentary)

कदु कदाखल्वस्येन्द्रस्य तविषीर्बलानि महीः महान्ति अधृष्टाः अधृष्टान्यधर्षकान्यासन् कदु कदानु खलु वृत्रघ्नो वृत्रहन्तुरिन्द्रस्य हन्तव्यमस्तृतं अहिंसितं अभवत् नकदाचिदित्यर्थः । अथवास्य महान्ति बलानि सेनालक्षणानि कदाप्यधृष्टानि अन्यबलैरहिंसितानि तथा वृत्रघ्नः शारीरं बलं अस्तृतमन्यैरहिंस्यं ईदृशेन द्विविधेन बलेनेन्द्रोविश्वान् सर्वान् बेकनाटान् अनेन कुसीदिनोवृद्धिजीविनो वार्धुषिकाउच्यन्ते कथंतद्मुत्पत्तिः वेइति अपभ्रंशोद्विशब्दार्थे एकं कार्षापणमृणिकायप्रयच्छन् द्वौमह्यंदातव्यौ नयेनदर्शयति ततोद्विशब्देनैकशब्देनच नाटयन्तीति बेकनाटाः तान- हर्दृशः अहःशब्देन तदुत्पादक आदित्योभिधेयोभवति तंपश्यन्तीत्यहर्दृशः । ननु सर्वे सूर्यं पश्यन्ति कोत्रातिशयइति उच्यते इहैवजन्मनि सूर्यं पश्य- न्ति नजन्मान्तरे लुब्धका अयष्टारोन्धे तमसि मज्जन्ति । अथवा लौकिकान्येवाहानि पश्यन्ति पारलौकिकान्यदृष्टानि दृष्टप्रधानाहिनास्तिकाः अतः- ईदृशान् पणीन् पणिसदृशान् शूद्रकल्पान् उतशब्दएवार्थे क्रत्वोत कर्मणैव ताडनादिव्यापारेणैवाभिभवतीतिशेषः । यद्वा पणीनुत पणीनेवाभिभव- ति न यष्टारम् । पणीनां निन्दास्मर्यते-गोरक्षकानापणिकांस्तथाचकारुशीलकान् । प्रेष्यान्वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् इति ॥ १० ॥

8.66.11 समानपद
व॒यं घा᳚ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा᳚णि वृत्रहन् ।
पु॒रू॒तमा᳚सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ᳚रामसि ॥
▶ पदपाठः (Word-by-word)
व॒यम् । घ॒ । ते॒ । अपू᳚र्व्या । इन्द्र᳚ । ब्रह्मा᳚णि । वृ॒त्र॒॑ह॒न् ।
पु॒रु॒॑तमा᳚सः । पु॒रु॒॑हू॒त॒ । व॒ज्रि॒॑वः॒ । भृ॒तिम् । न । प्र । भ॒रा॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वयंघ खलु ते तव अपूर्व्या नूतनानि ब्रह्माणि परिवृढानि स्तोत्राणि प्रभरामसि संभरामः पुरुतमासो बहुतमा वयं ऋत्विग्यजमानरूपेण वृत्रहन् वृत्रस्यहन्तः पुरुहूत बहुभिराहूत हे वज्रिवः वज्रयुक्तेन्द्र किमिव भृतिंन भृतिमिव तां यथा नियमेन प्रयच्छन्ति तद्वत् नियमेन प्रदानता- त्पर्याद्भृतिदृष्टान्तत्वमविरुद्धम् ॥ ११ ॥

8.66.12
पू॒र्वीश्चि॒द्धि त्वे तु᳚विकूर्मिन्ना॒शसो॒ हव᳚न्त इन्द्रो॒तयः᳚ ।
ति॒रश्चि᳚द॒र्यः सव॒ना व᳚सो गहि॒ शवि᳚ष्ठ श्रु॒धि मे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
पू॒र्वीः । चि॒त् । हि । त्वे इति᳚ । तु॒वि॒॑कू॒र्मि॒न् । आ॒॑शसः᳚ । हव᳚न्ते । इ॒न्द्र॒ । ऊ॒तयः᳚ ।
ति॒रः । चि॒त् । अ॒र्यः । सव᳚ना । आ । व॒सो॒ इति᳚ । ग॒हि॒ । शवि᳚ष्ठ । श्रु॒धि । मे॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तुविकूर्मिन् बहुकर्मन्निन्द्र त्वे त्वयि पूर्वीः चिद्धीतिपूरणौ बहूनि आशसः आशंसनानि स्थितानि तथा ऊतयो रक्षाश्च त्वयि अवस्थिता लब्धुं हवन्ते आह्वयन्ति स्तोतारोन्ये अतोर्योरेः सवना सवनानि तिरश्चित् तिरस्कृत्य अरीन्वा तिरस्कृत्यास्मत्सवनान्यभिलक्ष्य हे वसो वासकेन्द्र आगह्यागच्छ अतो हे शविष्ठातिशयेन बलवन् मे हवं श्रुधि शृणु ॥ १२ ॥

8.66.13
व॒यं घा᳚ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि᳚ ष्मसि ।
न॒हि त्वद॒न्यः पु᳚रुहूत॒ कश्च॒न मघ᳚व॒न्नस्ति᳚ मर्डि॒ता ॥
▶ पदपाठः (Word-by-word)
व॒यम् । घ॒ । ते॒ । त्वे इति᳚ । इत् । ऊं॒ इति᳚ । इन्द्र᳚ । विप्राः᳚ । अपि᳚ । स्म॒सि॒ ।
न॒हि । त्वत् । अ॒न्यः । पु॒रु॒॑हू॒त॒ । कः । च॒न । मघ᳚॑वन् । अस्ति᳚ । म॒र्डि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वयंघ वयंखलु तेतव स्वभूता अतस्त्वेइत् त्वय्येव विप्रा मेधाविनः स्तोतारोपि स्मसि अपिः संभावनायां त्वदधीनाः स्मेत्यर्थः । अन्यान्वि- हायेन्द्रएव वर्तते तस्मिन्कोतिशयइत्याह-हे पुरुहूत त्वदन्यः कश्चन हे मघवन्मर्डिता सुखयिता नह्यस्ति ॥ १३ ॥

8.66.14 समानपद
त्वं नो᳚ अ॒स्या अम᳚तेरु॒त क्षु॒धो॒३॒᳚॑भिश᳚स्ते॒रव᳚ स्पृधि ।
त्वं न᳚ ऊ॒ती तव᳚ चि॒त्रया᳚ धि॒या शिक्षा᳚ शचिष्ठ गातु॒वित् ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒स्याः । अम᳚तेः । उ॒त । क्षु॒धः । अ॒भि॑श᳚स्तेः । अव᳚ । स्पृ॒धि॒ ।
त्वम् । नः॒ । ऊ॒ती । तव᳚ । चि॒त्रया᳚ । धि॒या । शिक्ष᳚ । श॒चि॒ष्ठ॒ । गा॒तु॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नोस्मानस्या अमतेर्दारिद्मात्मिकायाः उतापिच क्षुधोभिशस्तेर्निंदायाश्च सकाशादवस्पृधि अवमोचय । किञ्च त्वं नोस्मभ्यं तवोती ऊत्या चित्रया धिया विचित्रेण कर्मणा शिक्ष देह्यभिमतम् । हे शविष्ठ बलवन् गातुविन्मार्गज्ञ उपायज्ञस्त्वम् ॥ १४ ॥

8.66.15
सोम॒ इद्व᳚ः सु॒तो अ᳚स्तु॒ कल᳚यो॒ मा बि᳚भीतन ।
अपेदे॒ष ध्व॒स्माय᳚ति स्व॒यं घै॒षो अपा᳚यति ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । इत् । वः॒ । सु॒तः । अ॒स्तु॒ । कल᳚यः । मा । बि॒भी॒त॒न॒ ।
अप᳚ । इत् । ए॒षः । ध्व॒स्मा । अ॒य॒ति॒ । स्व॒यम् । घ॒ । ए॒षः । अप᳚ । अ॒य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमः सुतोभिषुतः वि युष्माकं सम्बन्धी अस्त्वित् भवत्वेवेन्द्राय हे कलयः कलिमहर्षेर्ज्ञातयः पुत्राश्चात्र संबोध्यन्ते यूयं माबिभीतन भीता माभवत । भीत्यभावे कारणमाह-एषध्वस्मा ध्वंसको राक्षसादिरपेदयति अपगच्छत्येवेन्द्रसामर्थ्यात्स्वयंघ स्वयमेवैषः अपअयति इदितिपूरणः पुनरुक्तिर्दा- र्ढ्यार्था ॥ १५ ॥

त्यान्न्वित्येकविंशर्चमष्टमं सूक्तम् । अत्रानुक्रमणिका-त्यान्नुसैका मत्स्यः सांमदो मैत्रावरुणिर्मान्योवा बहवोवा मत्स्याजालनद्धा आदित्यानस्तु- वन् समदाख्यस्य महामीनस्यपुत्रो मत्स्यः यद्वा मित्रावरुणयोः पुत्रोमान्यः अथवा बहवोवा मत्स्याजालनद्धाः सन्तो बन्धनमोक्षायादित्यमस्तुवन् अतस्तएव ऋषयः । परंगायत्रं प्राग्वत्सप्रेरिति परिभाषया गायत्रीछन्दः आदित्या देवता सूक्तविनियोगोलैङ्गिकः ।