अष्टमं मण्डलम् - सूक्तम् 13

33 ऋचः

ऋषिः: नारदः काण्वः देवता: इंद्रः छन्दः: उष्णिक्

सूक्तम् 8.13 - सम्पूर्णम्

1 / 33
ऋक्: 8.13.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (33)
8.13.1 समानपद
इन्द्र᳚ः सु॒तेषु॒ सोमे᳚षु॒ क्रतुं᳚ पुनीत उ॒क्थ्य᳚म् ।
वि॒दे वृ॒धस्य॒ दक्ष᳚सो म॒हान्हि षः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । सु॒तेषु᳚ । सोमे᳚षु । क्रतु᳚म् । पु॒नी॒ते॒ । उ॒क्थ्य᳚म् ।
वि॒दे । वृ॒धस्य᳚ । दक्ष᳚सः । म॒हान् । हि । सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमेषु सुतेष्वभिषुतेषु सत्सु इन्द्रस्तान्पीत्वा क्रतुं कर्मणां कर्तारं उक्थ्यं स्तोतारंच् पुनीते शोधयति । यद्वा सोमेष्वभिषुतेषु उक्थ्यारव्यं क्रतुं यागं तैः सोमैः पुनीते यजमानैः पूतं कारयति । किमर्थं वृधस्य वर्धकस्य दक्षसोबलस्य विदे लाभाय सतादृशइन्द्रोमहान् हि महान् ख्लु अतएवं कर्तुं शक्रोतीतिभावः ॥ १ ॥

8.13.2
स प्र᳚थ॒मे व्यो᳚मनि दे॒वानां॒ सद᳚ने वृ॒धः ।
सु॒पा॒रः सु॒श्रव᳚स्तम॒ः सम᳚प्सु॒जित् ॥
▶ पदपाठः (Word-by-word)
सः । प्र॒थ॒मे । वि॑ओ᳚मनि । दे॒वाना᳚म् । सद᳚ने । वृ॒धः ।
सु॒॑पा॒रः । सु॒श्रवः᳚॑तमः । सम् । अ॒प्सु॒॑जित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः प्रथमे प्रथिते विस्तीर्णे मुख्ये वा व्योमनि विशेषेणरक्षके देवानां सदने सीदंत्यस्मिश्निति सदनं स्थानं स्वर्गाख्यं तत्र स्थितः सन् वृधोयजमानानां वर्धयिता भवति । तथा सुपारः सुष्ट् पारयिता प्रारब्धस्य सम्यक्परिसमापयिता सुश्रवस्तमः अतिशयेन शोभनं श्रवोन्नं यशोवा यस्य सतथोक्तः समप्सुजित् सम्यक् अप्सूदकेषु प्राप्येषु सत्सु तद्विघातिनोवृत्रादेर्जेता यद्वा आपइत्यंतरिक्षनाम अंतरिक्षे वर्तमानानामसुराणां जेता तमह्वइत्युत्तरत्रसंबंधः ॥ २ ॥

8.13.3 समानपद
तम᳚ह्वे॒ वाज᳚सातय॒ इन्द्रं॒ भरा᳚य शु॒ष्मिण᳚म् ।
भवा᳚ नः सु॒म्ने अन्त᳚म॒ः सखा᳚ वृ॒धे ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒ह्वे॒ । वाज᳚॑सातये । इन्द्र᳚म् । भरा᳚य । शु॒ष्मिण᳚म् ।
भव᳚ । नः॒ । सु॒म्ने । अन्त᳚मः । सखा᳚ । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं पूर्वोक्तगुणं शुष्मिणं बलवंत्तमिन्द्रं वाजसातये बलानामन्नानां वा सातिर्लाभोयस्मिन् तादृशाय भराय संग्रामाय यद्वा भ्रियंते तस्मिन् हवींषीति भरोयज्ञः प्रायेण संग्रा मनामानि यज्ञानामत्वेन च दृश्यंते भराय यज्ञार्थं अह्वे आह्वये । लिपिसिचिह्वश्च आत्मनेप- देष्वन्यतरस्यामिति ह्वयतेश्छान्दसे लुङि च्लेरङादेशः । हे इन्द्र त्वं सुम्त्रेसुखे धनेवा लिप्सिते सति नोस्माकं अंतमः अंतिकतमः सन्नि- कृष्टतमोभव । तमेतादेश्चेति अन्तिकशब्दस्य तादिलोपः । तथा वृधे वर्धनार्थं च सरवा समानख्यानोमित्रभूतोभव ॥ ३ ॥

8.13.4
इ॒यं त᳚ इन्द्र गिर्वणो रा॒तिः क्ष᳚रति सुन्व॒तः ।
म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा᳚जसि ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । रा॒तिः । क्ष॒र॒ति॒ । सु॒न्व॒तः ।
म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः᳚ । वि । रा॒ज॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणः गीर्भिः स्तुतिभिर्वननीय संभजनीयेन्द्र ते तुभ्यं त्वदर्थं इयं पुरोवर्तिनी सुन्वतः सोमाभिषवं कुर्वतोयजमानस्य संबन्धिनी रातिः ऋत्विग्भिः दीयमाना सोमाहुतिः क्षरति आहवनीयं प्रतिगच्छति त्वंच तया मन्दानोमन्दमानोमोदमानः तृप्यन् अस्य बर्हिषोय- ज्ञस्य विराजसि विशेषेणेशिषे । राजतिरैश्वर्यकर्मा ॥ ४||

8.13.5
नू॒नं तदि᳚न्द्र दद्धि नो॒ यत्त्वा᳚ सु॒न्वन्त॒ ईम᳚हे ।
र॒यिं न᳚श्चि॒त्रमा भ᳚रा स्व॒र्विद᳚म् ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । तत् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ । यत् । त्वा॒ । सु॒न्वन्तः᳚ । ईम᳚हे ।
र॒यिम् । नः॒ । चि॒त्रम् । आ । भ॒र॒ । स्वः॒॑विद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नूनमवश्यं तद्धनं नोस्मभ्यं दद्धि ददस्व दददाने व्यत्ययेन परस्मैपदम् छांदसशपोलुक् । यद्धनं त्वा त्वां सुन्वंतः सोमम- भिषुण्वंतोवयं ईमहे । अपिच चित्रं चायनीयं स्वर्विदं सर्वस्य लंभकं यद्वा स्वर्गस्य वेदितारं आस्तिकं रयिं पुत्रं नोस्मभ्यमाभराहर ॥ ५ ॥

8.13.6
स्तो॒ता यत्ते॒ विच᳚र्षणिरतिप्रश॒र्धय॒द्गिरः᳚ ।
व॒या इ॒वानु᳚ रोहते जु॒षन्त॒ यत् ॥
▶ पदपाठः (Word-by-word)
स्तो॒ता । यत् । ते॒ । वि॑च᳚र्षणिः । अ॒ति॒॑प्र॒श॒र्धय᳚त् । गिरः᳚ ।
व॒याः॑इ᳚व । अनु᳚ । रो॒ह॒ते॒ । जु॒षन्त᳚ । यत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र विचर्षणिर्विशेषेण द्रष्टा स्तोता ते तुभ्यं त्वदर्थं गिरः स्तुतीः यद्यदा अतिप्रशर्धयत् अतिशयेन प्रशर्धयित्रीरकरोत् शत्रूणां प्रस- हनसमर्थाः । शृधुप्रसहने । यद्यदाच ता गिरः जुषंत त्वामसेवन्त अप्रीणयन् वा । तदा वयाइव शाखाइव यथा एकस्मिन्वृक्षे बध्दाः शा- खाउपरि प्ररोहंति तथा अनुरोहते स्तुत्या सर्वेगुणाः त्वयि प्ररोहन्ति ॥ ६ ॥

8.13.7
प्र॒त्न॒वज्ज᳚नया॒ गिरः᳚ शृणु॒धी ज᳚रि॒तुर्हव᳚म् ।
मदे᳚मदे ववक्षिथा सु॒कृत्व᳚ने ॥
▶ पदपाठः (Word-by-word)
प्र॒त्न॒॑वत् । ज॒न॒य॒ । गिरः᳚ । शृ॒णु॒धि । ज॒रि॒तुः । हव᳚म् ।
मदे᳚॑मदे । व॒व॒क्षि॒थ॒ । सु॒॑कृत्व᳚ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रत्नवत् पुरा यथा स्तोतृभ्योपेक्षितफलप्रदानेन स्तुतीर्जनयसि एवमिदानीमपि गिरः स्तुतीर्जनयोत्पादय जरितुः स्तोतुः हव- माह्वानंच शुणुधि शृणुधि शृणु जानीहि । ताद्दशस्त्वं मदेमदे सोमेन तर्पणेतर्पणे सति सुकृत्वने शोभनकर्त्रे यजमानाय ववक्षिथापेक्षितं फलं वहसि ददासीत्यर्थः ॥ ७ ॥

8.13.8
क्रीळ᳚न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता᳚ य॒तीः ।
अ॒या धि॒या य उ॒च्यते॒ पति᳚र्दि॒वः ॥
▶ पदपाठः (Word-by-word)
क्रीळ᳚न्ति । अ॒स्य॒ । सू॒नृताः᳚ । आपः᳚ । न । प्र॒॑वता᳚ । य॒तीः ।
अ॒या । धि॒या । यः । उ॒च्यते᳚ । पतिः᳚ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य सूनृताः प्रियसत्यात्मिकावाचः क्रीळन्ति विहरन्ति तत्रदृष्टांतः- प्रवता प्रवणेन मार्गेण यतीर्गच्छन्त्यआपोन आपइव यथानि- म्रोन्नतेन पथा गच्छन्त्यआपउत्पतननिपतनेन विहरन्ति तद्वत् दिवः स्वर्गस्य पतिः पालयिता यइन्द्रः अया धिया स्तुत्या उच्यते प्रति- पाद्यते अस्येन्द्रस्येत्यन्वयः ॥ ८ ॥

8.13.9
उ॒तो पति॒र्य उ॒च्यते᳚ कृष्टी॒नामेक॒ इद्व॒शी ।
न॒मो॒वृ॒धैर᳚व॒स्युभि᳚ः सु॒ते र᳚ण ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । पतिः᳚ । यः । उ॒च्यते᳚ । कृ॒ष्टी॒नाम् । एकः᳚ । इत् । व॒शी ।
न॒मः॒॑वृ॒धैः । अ॒व॒स्यु॑भिः᳚ । सु॒ते । र॒ण॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपिच वशी वशयिता एकइत् एकएव कृष्टीनां मनुष्याणां पतिः पालयितेति यइन्द्रउच्यते कैः नमोवृधैः नमसा स्तोत्रेण हविषा वा वर्धयितृभिः अवस्युभिः रक्षणेच्छुभिः सत्वं पूर्वोक्ते सुतेभिषुते सोमे रण रमस्व । यद्वा हे स्तोतः तमिन्द्रं सुते सोमे स्नुहि रणतिः शब्दार्थः ॥ ९ ॥

8.13.10
स्तु॒हि श्रु॒तं वि᳚प॒श्चितं॒ हरी॒ यस्य᳚ प्रस॒क्षिणा᳚ ।
गन्ता᳚रा दा॒शुषो᳚ गृ॒हं न᳚म॒स्विनः᳚ ॥
▶ पदपाठः (Word-by-word)
स्तु॒हि । श्रु॒तम् । वि॒पः॒॑चित᳚म् । हरी॒ इति᳚ । यस्य᳚ । प्र॒॑स॒क्षिणा᳚ ।
गन्ता᳚रा । दा॒शुषः᳚ । गृ॒हम् । न॒म॒स्विनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतः विपश्चितं विशिष्टज्ञानं श्रुतं विश्रुतं प्रख्यातं तमिन्द्रं स्तुहि प्रशंस । यस्येन्द्रस्य हरी अश्वौ प्रसक्षिणा शत्रूणां प्रसहन- शीलौ नमस्विनोहविष्मतः दाशुपोदत्तवतोयजमानस्य गृहं गंतारा गमनशीलौच तमिन्द्रं स्तुहीति संबंधः गमेस्ताच्छीलिकस्तृन् ॥ १० ॥

8.13.11
तू॒तु॒जा॒नो म᳚हेम॒ते॑श्वे᳚भिः प्रुषि॒तप्सु᳚भिः ।
आ या᳚हि य॒ज्ञमा॒शुभि॒ः शमिद्धि ते᳚ ॥
▶ पदपाठः (Word-by-word)
तू॒तु॒जा॒नः । म॒हे॒॑म॒ते॒ । अश्वे᳚भिः । प्रु॒षि॒तप्सु᳚॑भिः ।
आ । या॒हि॒ । य॒ज्ञम् । आ॒शु॑भिः᳚ । शम् । इत् । हि । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महेमते महते फलाय मतिर्बुध्दिर्यस्यासौ महेमतिः अलुक् छान्दसः सतादृश हे इन्द्र तूतुजानस्त्वरमाणः सन् प्रुषितप्सुभिः स्निग्ध- रूपैराशुभिः शीघ्रगामिभिरश्वेभिः अश्वैर्यज्ञमस्मदीयमायाह्वागच्छ । हि यस्मात्ते तव तस्मिन् यज्ञे शमित् सुखं विद्यतएव अतआगच्छे- त्यर्थः ॥ ११ ॥

8.13.12
इन्द्र᳚ शविष्ठ सत्पते र॒यिं गृ॒णत्सु᳚ धारय ।
श्रवः᳚ सू॒रिभ्यो᳚ अ॒मृतं᳚ वसुत्व॒नम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । श॒वि॒ष्ठ॒ । स॒त्॑प॒ते॒ । र॒यिम् । गृ॒णत्॑सु᳚ । धा॒र॒य॒ ।
श्रवः᳚ । सू॒रि॑भ्यः᳚ । अ॒मृत᳚म् । व॒सु॒॑त्व॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शविष्ठ बलवत्तम सत्पते सतां पालयितरिन्द्र गृणत्स्वस्मासु रयिं धनं धारयाश्वस्थापय । अपिच सूरिभ्यः स्तोतृभ्योमृतमनश्वरं वसुत्वनं व्याप्तिमत् श्रवोन्नं यशोवा देहीति शेषः ॥ १२ ॥

8.13.13
हवे᳚ त्वा॒ सूर॒ उदि᳚ते॒ हवे᳚ म॒ध्यंदि᳚ने दि॒वः ।
जु॒षा॒ण इ᳚न्द्र॒ सप्ति᳚भिर्न॒ आ ग᳚हि ॥
▶ पदपाठः (Word-by-word)
हवे᳚ । त्वा॒ । सूरे᳚ । उत्॑इ᳚ते । हवे᳚ । म॒ध्यन्दि᳚ने । दि॒वः ।
जु॒षा॒णः । इ॒न्द्र॒ । सप्ति᳚॑भिः । नः॒ । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सूरे सूर्ये उदिते उदयं प्राप्ते सति प्रातःसवने त्वा त्वां हवे आह्वये । तथा दिवोदिवसस्य मध्यन्दिने मध्यभागे माध्यन्दिने सवने त्वां हवे आह्वये । हे इन्द्र सत्वं जुषाणः प्रीयमाणः सन् सप्तिभिः सर्पणशीलैरश्वैर्नोस्मानागह्चागच्छ ॥ १३ ॥

8.13.14
आ तू ग᳚हि॒ प्र तु द्र᳚व॒ मत्स्वा᳚ सु॒तस्य॒ गोम᳚तः ।
तन्तुं᳚ तनुष्व पू॒र्व्यं यथा᳚ वि॒दे ॥
▶ पदपाठः (Word-by-word)
आ । तु । ग॒हि॒ । प्र । तु । द्र॒व॒ । मत्स्व᳚ । सु॒तस्य᳚ । गो॑म᳚तः ।
तन्तु᳚म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । यथा᳚ । वि॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तु क्षिममागह्चागच्छ आगत्यच तु क्षिप्रं प्रद्रव सोमोयत्र निवसति तं देशं प्रति शीघ्रं गच्छ । गत्वाच गोमतः गोविकारैः पयःप्रभृतिभिः श्रयणद्रव्यैर्युक्तस्य सुतस्याभिषुतस्य सोमस्य पानेन मत्स्व माद्य हृष्टोभव । तदनंतरं यथा अहं विदे उपलभे तथा पूर्व्यं पूर्वैःकृतं तंतुं विस्तृतं यज्ञं तनुष्व सम्यङिष्पादय फलोत्पादनसमर्थं कुर्वित्यर्थः ॥ १४ ॥

8.13.15 समानपद
यच्छ॒क्रासि᳚ परा॒वति॒ यद᳚र्वा॒वति᳚ वृत्रहन् ।
यद्वा᳚ समु॒द्रे अन्ध᳚सो॑वि॒तेद᳚सि ॥
▶ पदपाठः (Word-by-word)
यत् । श॒क्र॒ । असि᳚ । प॒रा॒॑वति᳚ । यत् । अ॒र्वा॒॑वति᳚ । वृ॒त्र॒॑ह॒न् ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध᳚सः । अ॒वि॒ता । इत् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शक्रेन्द्र परावति दूरदेशे यद्यदि असि भवसि हे वृत्रहन् यद्यदिवा अर्वावति समीपे भवसि वर्तसे यद्वा यदिवा समुद्रे जलधावंत- रिक्षे वा वर्तसे तस्मात्सर्वस्मात्स्थानादागत्य अन्धसः अन्नस्य सोमलक्षणस्य पानेन अवितेदसि रक्षितैव भवसि ॥ १५ ॥

8.13.16
इन्द्रं᳚ वर्धन्तु नो॒ गिर॒ इन्द्रं᳚ सु॒तास॒ इन्द᳚वः ।
इन्द्रे᳚ ह॒विष्म᳚ती॒र्विशो᳚ अराणिषुः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ । इन्द्र᳚म् । सु॒तासः᳚ । इन्द᳚वः ।
इन्द्रे᳚ । ह॒विष्म᳚तीः । विशः᳚ । अ॒रा॒णि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं गिरः स्तुतिरूपावाचः इन्द्रं वर्धन्तु वर्धयन्तु सुतासोभिषुताः इन्दवः सोमाश्र्चास्मदीयास्तमिन्द्रं वर्धयन्तु हविष्मतीर्हविष्मत्यः हविर्भिश्र्वरुपुरोडाशादिभिर्युक्ताः विशः प्रजा तस्मिन्निन्द्रे अराणिषुररंसिषुः ॥ १६ ॥

8.13.17
तमिद्विप्रा᳚ अव॒स्यवः᳚ प्र॒वत्व᳚तीभिरू॒तिभि᳚ः ।
इन्द्रं᳚ क्षो॒णीर᳚वर्धयन्व॒या इ᳚व ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । विप्राः᳚ । अ॒व॒स्यवः᳚ । प्र॒वत्व᳚तीभिः । ऊ॒ति॑भिः᳚ ।
इन्द्र᳚म् । क्षो॒णीः । अ॒व॒र्ध॒य॒न् । व॒याः॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

विप्रामेधाविनः अवस्यवोरक्षणकामाः स्तोतारः तमित् तमेवेन्द्रं प्रवत्वतीभिः प्रकर्षेणाभिगन्त्रीभिः ऊतिभिस्तृप्तिकरीभिराहुतिभिः स्तु- तिभिर्वा वर्धयन्ति तथा क्षोणीः क्षोण्यः क्षोणीति पृथिवीनाम तदुपलक्षिताः सर्वे लोकावयाइव वृक्षस्य शाखाइव तदधीनाः सन्तोवर्ध- यन्वर्धयन्ति ॥ १७ ॥

8.13.18
त्रिक᳚द्रुकेषु॒ चेत᳚नं दे॒वासो᳚ य॒ज्ञम᳚त्नत ।
तमिद्व᳚र्धन्तु नो॒ गिरः᳚ स॒दावृ᳚धम् ॥
▶ पदपाठः (Word-by-word)
त्रि॑क᳚द्रुकेषु । चेत᳚नम् । दे॒वासः᳚ । य॒ज्ञम् । अ॒त्न॒त॒ ।
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ । स॒दा॑वृ᳚धम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिकद्रुकेषु त्रिकद्रुकानाम ज्योतिर्गौरायुरिति त्रीण्याभिप्लविकान्यहानि तेषु देवासो देवाः चेतनं चेतयितारमिन्द्रं यज्ञं यष्टव्यं अन्तत अतन्वताकृषत तनोतेर्लङि छान्दसोविकरणस्य लुक् तनिपत्योश्छन्दसीत्युपधालोपः । तमित् तमेवेन्द्रं नोस्माकं गिरः स्तुतयश्र्व वर्धन्तु वर्धयन्तु । कीदृशं सदावृधं सर्वदस्तोतृणां वर्धयितारम् ॥ १८ ॥

8.13.19
स्तो॒ता यत्ते॒ अनु᳚व्रत उ॒क्थान्यृ᳚तु॒था द॒धे ।
शुचि᳚ः पाव॒क उ᳚च्यते॒ सो अद्भु᳚तः ॥
▶ पदपाठः (Word-by-word)
स्तो॒ता । यत् । ते॒ । अनु᳚॑व्रतः । उ॒क्थानि᳚ । ऋ॒तु॒॑था । द॒धे ।
शुचिः᳚ । पा॒व॒कः । उ॒च्य॒ते॒ । सः । अद्भु᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यत् यस्य ते तव स्तोता अनुव्रतः अनुकूलकर्मासन् ऋतुथा ऋतुषु कालेकाले उक्थानि शस्त्रादि दधे विधत्ते करोति लोपस्त आत्मनेपदेष्वितितलोपः । परोर्धर्चः परोक्षकृतः । सइन्द्रः अद्रुतः आश्र्वर्यभूतः शुचिः शुद्धः पावकोन्येषामपिशोधकइति उच्यते स्तोतृभिः स्तूयते ॥ १९ ॥

8.13.20
तदिद्रु॒द्रस्य᳚ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम᳚सु ।
मनो॒ यत्रा॒ वि तद्द॒धुर्विचे᳚तसः ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । रु॒द्रस्य᳚ । चे॒त॒ति॒ । य॒ह्वम् । प्र॒त्नेषु᳚ । धाम᳚॑सु ।
मनः᳚ । यत्र᳚ । वि । तत् । द॒धुः । वि॑चे᳚तसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तदित् तदेव रुद्रस्य रुत् दुःखं तस्य द्रावयितुरीश्वरस्य यह्वं अपत्यं मरुत्संघात्मकं यद्वा रुद्रशब्देन लक्षणया मरुद्गउच्यते रुद्रस्य रुद्र- पुत्रस्य मरुद्गणस्य यह्वं महन्नामैतत् महत्तदेवबलं प्रत्नेषु चिरंतनेषु धामसु पृथिव्यादिस्थानेषु चेतति ज्ञायते वर्तते यत्र यस्मिन्बलविषये विचेतसोविशिष्टज्ञानाः स्तोतारः तत्प्रसिद्धं मनोमननसाधनं स्तोत्रं विदधुः कुर्वन्ति तदित्यन्वयः ॥ २० ॥

8.13.21
यदि᳚ मे स॒ख्यमा॒वर᳚ इ॒मस्य᳚ पा॒ह्यन्ध᳚सः ।
येन॒ विश्वा॒ अति॒ द्विषो॒ अता᳚रिम ॥
▶ पदपाठः (Word-by-word)
यदि᳚ । मे॒ । स॒ख्यम् । आ॒॑वरः᳚ । इ॒मस्य᳚ । पा॒हि॒ । अन्ध᳚सः ।
येन᳚ । विश्वाः᳚ । अति᳚ । द्विषः᳚ । अता᳚रिम ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मे मम सख्यं सखित्वं यद्यावरः यदि आभिमुख्येन वृणुयाः तर्हि इम्स्य अस्य हलिलोपाभावश्छान्दसः पुरोवर्तिनः अंधसः अन्नस्य सोमलक्षणस्य स्वांशं पाहि पिब । अंधसइति कर्मणि वा षष्ठी पिबतेश्छान्दसोविकरणस्य शपोलुक् । येन त्वत्पीतेन सोमेन हेतना वयं विश्वाः सर्वाद्विषोद्वेष्ट्रीः शत्रुसेनाः अत्यतारिम अतितरेम अतिक्रामेम ॥ २१ ॥

8.13.22
क॒दा त᳚ इन्द्र गिर्वणः स्तो॒ता भ᳚वाति॒ शंत᳚मः ।
क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ᳚ दधः ॥
▶ पदपाठः (Word-by-word)
क॒दा । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । स्तो॒ता । भ॒वा॒ति॒ । शम्॑त᳚मः ।
क॒दा । नः॒ । गव्ये᳚ । अश्व्ये᳚ । वसौ᳚ । द॒धः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणोगिरां स्तुतीनां संभक्तरिन्द्र ते तव स्तोता शंतमः सुखतमोतिशये नसुखवान् कदा कस्मिन्काले भवाति भवेत् कदा कस्मिंश्च काले नोस्मान् गव्ये गोसमूहे अश्व्ये अश्वसंघे वसौ निवासभूतेन्यस्मिन्नपि धने दधः धारये: ॥ २२ ॥

8.13.23
उ॒त ते॒ सुष्टु᳚ता॒ हरी॒ वृष᳚णा वहतो॒ रथ᳚म् ।
अ॒जु॒र्यस्य᳚ म॒दिन्त᳚मं॒ यमीम᳚हे ॥
▶ पदपाठः (Word-by-word)
उ॒त । ते॒ । सु॑स्तु᳚ता । हरी॒ इति᳚ । वृष᳚णा । व॒ह॒तः॒ । रथ᳚म् ।
अ॒जु॒र्यस्य᳚ । म॒दिन्॑त᳚मम् । यम् । ईम᳚हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे इन्द्र सुष्टुता शोभनस्तुतौ वृषणा वृषणौ कामानां वर्षितारौ हरी अश्वौ अजुर्यस्य जरारहितस्य ते तव रथं इदानीं वहतः अस्मन्निकटं प्रापयतः मदिन्तमं अतिशयेम मदवन्तं यं त्वां धनं ईमहे याचामहे तस्य तइत्यन्वय: ॥ २३ ॥

8.13.24 समानपद
तमी᳚महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि᳚रू॒तिभि᳚ः ।
नि ब॒र्हिषि᳚ प्रि॒ये स᳚द॒दध᳚ द्वि॒ता ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒म॒हे॒ । पु॒रु॒॑स्तु॒तम् । य॒ह्वम् । प्र॒त्नाभिः᳚ । ऊ॒ति॑भिः᳚ ।
नि । ब॒र्हिषि᳚ । प्रि॒ये । स॒द॒त् । अध᳚ । द्वि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

यह्वं महांतं बहुभि: स्तुतमिन्द्रं प्रत्नाभि: ऊतिभिस्तृप्तिकरीभि: सोमाहुतिभिर्हेतुभि: ईमहे याचामहे सचेन्द्र: प्रिये प्रीतिकरे बर्हिषि आस्तीर्णे दर्भे निषदत् निषीदतु हवि:स्वीकरणायोपविशतु अधानंतरं द्विता द्वैधं वर्तमानानि चरुपुरोडाशादीनि सोमलक्षणानिच हवींषि स्वीकरोत्विति- रोष: ॥ २४ ॥

8.13.25
वर्ध᳚स्वा॒ सु पु᳚रुष्टुत॒ ऋषि᳚ष्टुताभिरू॒तिभि᳚ः ।
धु॒क्षस्व᳚ पि॒प्युषी॒मिष॒मवा᳚ च नः ॥
▶ पदपाठः (Word-by-word)
वर्ध᳚स्व । सु । पु॒रु॒॑स्तु॒त॒ । ऋषि᳚॑स्तुताभिः । ऊ॒ति॑भिः᳚ ।
धु॒क्षस्व᳚ । पि॒प्युषी᳚म् । इष᳚म् । अव᳚ । च॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुष्टुत बहुभि: स्तुतेन्द्र ऋषिस्तुताभि: ऋषिभिर्मन्त्रदर्शिभि: पुरा स्तुताभि: ऊतिभीरक्षाभि: सु सुष्टु वर्धस्वास्मान्वर्धय । यद्वा ऋषिभिरुत्पा- दिताभि: ऊतिभि: स्तुतिभि: त्वं वर्धस्व वृद्धिं प्राप्नुहि । नोस्मभ्यंच पिप्युषीं प्रवृद्धां इषं इष्यमाणमन्नं अवधुक्षस्व अवाङ्मुखमस्मदभिमुखं धुक्षस्व क्षारय देहीत्यर्थ: ॥ २५ ॥

8.13.26
इन्द्र॒ त्वम᳚वि॒तेद᳚सी॒त्था स्तु᳚व॒तो अ᳚द्रिवः ।
ऋ॒तादि᳚यर्मि ते॒ धियं᳚ मनो॒युज᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । त्वम् । अ॒वि॒ता । इत् । अ॒सि॒ । इ॒त्था । स्तु॒व॒तः । अ॒द्रि॒॑वः॒ ।
ऋ॒तात् । इ॒य॒र्मि॒ । ते॒ । धिय᳚म् । म॒नः॒॑युज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिव: वज्रवन्निन्द्र त्वं इत्था इत्थमनेन प्रकारेण स्तुवत: स्तोत्रं कुर्वतोयजमानस्य अवितेदसि रक्षितैवभवसि । यतएवमत:कारणात् अहमपि ऋताद्यज्ञाद्धेतो: मनोयुजं मनसा मननीयेनस्तोत्रिण प्राप्यां ते त्वदीयां धियमनुग्रहबुद्धिं इयर्मि प्राप्नोमि । यद्वा ऋतात्सत्यभूतात् त्वत्त: स्तोत्रेण युक्तं त्वत्प्रीतिकरं कर्माहं प्राप्नोमि ॥ २६ ॥

8.13.27 समानपद
इ॒ह त्या स᳚ध॒माद्या᳚ युजा॒नः सोम᳚पीतये ।
हरी᳚ इन्द्र प्र॒तद्व᳚सू अ॒भि स्व᳚र ॥
▶ पदपाठः (Word-by-word)
इ॒ह । त्या । स॒ध॒॑माद्या᳚ । यु॒जा॒नः । सोम᳚॑पीतये ।
हरी॒ इति᳚ । इ॒न्द्र॒ । प्र॒तद्व᳚सू॒ इति᳚ प्र॒तत्॑व᳚सू । अ॒भि । स्व॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र इहास्मिन्यागे सोमपीतयेसोमपानायाभिस्वराभिगच्छ । किंकुर्वन् त्या त्यौ तौ प्रसिद्धौ सधमाद्या त्वया सह हविर्भिर्मादयितव्यौ तर्पयि- तव्यौ प्रतद्वसू प्राप्तवसू विस्तीर्णधनौ ईदृशौ हरी त्वदीयावश्वौ युजान: रथेन संयोजयन् ॥ २७ ॥

8.13.28
अ॒भि स्व᳚रन्तु॒ ये तव᳚ रु॒द्रासः᳚ सक्षत॒ श्रिय᳚म् ।
उ॒तो म॒रुत्व᳚ती॒र्विशो᳚ अ॒भि प्रयः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । स्व॒र॒न्तु॒ । ये । तव᳚ । रु॒द्रासः᳚ । स॒क्ष॒त॒ । श्रिय᳚म् ।
उ॒तो इति᳚ । म॒रुत्व᳚तीः । विशः᳚ । अ॒भि । प्रयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिस्वरंतु अभिगच्छंतु ते । हे इन्द्र तवानुचरा: रुद्रासोरुद्रपुत्रा येमरुत: संति । अपिच ते श्रियं श्रयणीयमिमं यज्ञं सक्षत सचंतु प्राप्नुवन्तु । उतो अपिच मरुत्वतीर्मरुद्धिर्युद्क्ता: विश: अन्यापि दैवी: प्रजा: अन्ननामैतत् अस्मदीयं हविर्लक्षणमन्नमभिगच्छन्तु ॥ २८ ॥

8.13.29
इ॒मा अ᳚स्य॒ प्रतू᳚र्तयः प॒दं जु᳚षन्त॒ यद्दि॒वि ।
नाभा᳚ य॒ज्ञस्य॒ सं द᳚धु॒र्यथा᳚ वि॒दे ॥
▶ पदपाठः (Word-by-word)
इ॒माः । अ॒स्य॒ । प्र॑तू᳚र्तयः । प॒दम् । जु॒ष॒न्त॒ । यत् । दि॒वि ।
नाभा᳚ । य॒ज्ञस्य᳚ । सम् । द॒धुः॒ । यथा᳚ । वि॒दे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य संबंधिन्य: इमा: पूर्वोक्तामरुदादिरूपा: प्रजा: प्रतूर्तय: प्रकर्षेण शत्रूणां हिंसित्र्य: पदं स्थानं जुषंत असेवन्त । दिवि द्युलोकेयत्स्थानं अन्यैर्दु:प्रापमस्तितत्पदमित्यर्थ: । अपिच ता: यज्ञस्य ज्योतिष्टोमादे: नाभा नाभौ नाभिस्थानीये हविर्धाने उत्तरवेधां वा संदधु: संनिदधते । यथा येन प्रकारेण विदे विन्दे अपेक्षितं धनं लभे तथेत्यर्थ: । यद्वा विदे ज्ञानय यथास्माकं वरं ज्ञानं भवति तथेत्यर्थ: ॥ २९ ॥

8.13.30
अ॒यं दी॒र्घाय॒ चक्ष᳚से॒ प्राचि᳚ प्रय॒त्य᳚ध्व॒रे ।
मिमी᳚ते य॒ज्ञमा᳚नु॒षग्वि॒चक्ष्य᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । दी॒र्घाय᳚ । चक्ष᳚से । प्राचि᳚ । प्र॒॑य॒ति । अ॒ध्व॒रे ।
मिमी᳚ते । य॒ज्ञम् । आ॒नु॒षक् । वि॒॑चक्ष्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्राचि प्राचीने प्रागायते यज्ञगृहे अध्वरे हिंसारहिते यज्ञे प्रयति गच्छति प्रवर्तमाने सति अयमिन्द्र: प्रवर्तमानं तं यज्ञं आनुषक् आनुष्क्तमानुपू- र्व्येण विचक्ष्य विशेषेण दृष्ट्वा मिमीते निष्पादयति किमर्थे दीर्घायायताय चक्षसे दर्शनाय । यद्वा द्रष्टव्याय फलाय ॥ ३० ॥

8.13.31
वृषा॒यमि᳚न्द्र ते॒ रथ᳚ उ॒तो ते॒ वृष᳚णा॒ हरी᳚ ।
वृषा॒ त्वं श᳚तक्रतो॒ वृषा॒ हवः᳚ ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । अ॒यम् । इ॒न्द्र॒ । ते॒ । रथः᳚ । उ॒तो इति᳚ । ते॒ । वृष᳚णा । हरी॒ इति᳚ ।
वृषा᳚ । त्वम् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । वृषा᳚ । हवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदीय: अयं रथ: वृषा कामानां वर्षिता उतो अपिच तव हरी अश्वौ वृपणा वृषणौ वर्षितारौ हे शतक्रतो बहुकर्मन् बहुप्रज्ञेन्द्र त्वं च वृषा वर्षिता कामानां तथा हवस्त्वद्विषयमाह्वानं च वृषा वर्षिता त्वद्विषयमाह्वानमपि कामान्वर्षति किमु वक्तव्यं त्वदीयारथादयोवर्षन्तीति भाव: ॥ ३१ ॥

8.13.32
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚ अ॒यं सु॒तः ।
वृषा᳚ य॒ज्ञो यमिन्व᳚सि॒ वृषा॒ हवः᳚ ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । ग्रावा᳚ । वृषा᳚ । मदः᳚ । वृषा᳚ । सोमः᳚ । अ॒यम् । सु॒तः ।
वृषा᳚ । य॒ज्ञः । यम् । इन्व᳚सि । वृषा᳚ । हवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रावा अभिषवसाधनपाषाण: वृषा वर्षता कामानां हे इन्द्र त्वदीय: सोमपानजन्योमदश्च वृषा वर्षिता सुतस्त्वदर्थमभिषुतोयं सोमश्च वृषा वर्षिता यं यज्ञमिन्वसि त्वं प्राप्नोषि सच यज्ञोवृषा अभीष्टस्य फलस्य वर्षिता त्वदीतोहवश्च वृषा ॥ ३२ ॥

8.13.33
वृषा᳚ त्वा॒ वृष᳚णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि᳚रू॒तिभि᳚ः ।
वा॒वन्थ॒ हि प्रति᳚ष्टुतिं॒ वृषा॒ हवः᳚ ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । त्वा॒ । वृष᳚णम् । हुवे᳚ । वज्रि᳚न् । चि॒त्राभिः᳚ । ऊ॒ति॑भिः᳚ ।
व॒वन्थ᳚ । हि । प्रति᳚॑स्तुतिम् । वृषा᳚ । हवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रिन् वज्रवन्निन्द्र वृषणं वृषाणं वर्षितारं त्वा त्वां वृषा वर्षिता हविषामासेक्ताऽ हं चित्राभिश्चायनीयाभिः नानाविधाभिर्वा ऊतिभिस्तृप्ति- करीभिःस्तुतिभिः हुवे आह्वये । हि यस्मात् त्वं प्रतिष्टुतिं त्वामभिलक्ष्य कृतं स्तोत्रं ववन्थ वनसि संभजसि अतस्त्वदीयोहवआह्वानं वृषा वर्घिता । यद्वा हवोह्वातव्योवृषा वर्षिता त्वां यस्मात् स्तुतिं वनसि तस्मात् त्वां हुवइत्यर्थः ॥ ३३ ॥