विश्वा᳚सां तरु॒ता पृत᳚नानां॒ ज्येष्ठो॒ यो वृ᳚त्र॒हा गृ॒णे ॥
पदपाठः (Word-by-word)
विश्वा᳚साम् । त॒रु॒ता । पृत᳚नानाम् । ज्येष्ठः᳚ । यः । वृ॒त्र॒॑हा । गृ॒णे ॥
सायणभाष्यम् (Sayana Commentary)
यइन्द्रश्चर्षणीनां मनुष्याणां राजा स्वामीरथेभिः रथैः याता गन्ताच अध्रिगुरधृतगमनोन्यैः विश्वासां पृतनानां सेनानां तरुता तारकः यश्च ज्येष्ठः गुणैर्ज्यायान् यश्च वृत्रहा वृत्रं हतवान् तं महाभागमिन्द्रं गृणे स्तौमि ॥ १ ॥