श्रवणम्

8.70.13
सखा᳚य॒ः क्रतु᳚मिच्छत क॒था रा᳚धाम श॒रस्य᳚ ।
उप᳚स्तुतिं भो॒जः सू॒रिर्यो अह्र᳚यः ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । क्रतु᳚म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य᳚ ।
उप᳚॑स्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः ऋत्विजोध्वर्य्वादयः क्रतुं कर्मेन्द्रसंबंधिनमिच्छत कर्तुम् । हे सखायः शरस्य शॄहिंसायां हिंसकस्येन्द्रस्य कथा कथं राधाम साधयाम । किं उपस्तुतिं स्तोत्रं यइन्द्रोभोजः शत्रूणं भोजयिता सूरिः प्रेरकः अह्रयोऽनवनवतः शत्रूणामिति ॥ १३ ॥