श्रवणम्

8.70.5
यद्द्याव᳚ इन्द्र ते श॒तं श॒तं भूमी᳚रु॒त स्युः ।
न त्वा᳚ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम᳚ष्ट॒ रोद᳚सी ॥
▶ पदपाठः (Word-by-word)
यत् । द्यावः᳚ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः᳚ । उ॒त । स्युरिति॒ स्युः ।
न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र᳚म् । सूर्याः᳚ । अनु᳚ । न । जा॒तम् । अ॒ष्ट॒ । रोद᳚सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव प्रतिमानार्थं यद्यदि द्यावोद्युलोकाः सत्यंस्युः तथापि नाश्नुवन्ति । उतापिच भूमीर्भूम्यः ते तवमूर्तिप्रतिबिंबाय शतंस्युः तथापि नाश्नुवन्ति । हे वज्रिन् त्वा त्वां सहस्रं सूर्या अगणिताःअपि सूर्योः नानुभवन्ति नप्रकाशयन्तीत्यर्थः । न तत्र सूर्यो भातीतिश्रुतेः । किंबहुना जातं पूर्वमुत्पन्नं किञ्च अनुनाष्ट नाश्नुते । तथा रोदसी द्यावापृथिव्यौ नाश्नुवाते सर्वेभ्योतिरिच्यसइत्यर्थः । ज्यायान् पृथिव्या ज्यायानन्तरिक्षात् ज्यायान् दिवो ज्यायानेभ्योलोकेभ्यईतिश्रुतेः ॥ ५ ॥