अषा᳚ळ्हमु॒ग्रं पृत᳚नासु सास॒हिं यस्मि᳚न्म॒हीरु᳚रु॒ज्रयः᳚ ।
सं धे॒नवो॒ जाय᳚माने अनोनवु॒र्द्याव॒ः क्षामो᳚ अनोनवुः ॥
सं धे॒नवो॒ जाय᳚माने अनोनवु॒र्द्याव॒ः क्षामो᳚ अनोनवुः ॥
पदपाठः (Word-by-word)
अषा᳚ळ्हम् । उ॒ग्रम् । पृत᳚नासु । स॒स॒हिम् । यस्मि᳚न् । म॒हीः । उ॒रु॒॑ज्रयः᳚ ।
सम् । धे॒नवः᳚ । जाय᳚माने । अ॒नो॒न॒वुः॒ । द्यावः᳚ । क्षामः᳚ । अ॒नो॒न॒वुः॒ ॥
सम् । धे॒नवः᳚ । जाय᳚माने । अ॒नो॒न॒वुः॒ । द्यावः᳚ । क्षामः᳚ । अ॒नो॒न॒वुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
अषाह्ळं असोढं उग्रमुद्गूर्णबलं पृतनासु शत्रुसेनासु सासहिं अभिभवितारं स्तौमीत्यर्थः । यस्मिन्निन्द्रे जायमाने महीर्महत्यः उरुज्रयो बहुवेगाः धेनवोहविरादिनाप्रीणयित्र्यः प्रजागावएववा समनोनवुः सम्कस्तुवन् । नकेवलं धेनवएव अपितु द्यावोद्युलोकाः क्षामः पृथिव्यश्च समनोनवुः । तत्रत्याः सर्वेप्राणिनो नमन्तेइत्यर्थः । त्रिवृतो लोकाइति श्रुतेर्बहुवचनम् ॥ ४ ॥ तृतीयेहनि निष्केवल्ये वैरूपसामपक्षे यद्य्यावइति प्रगाथःस्तोत्रियः । सूत्रितञ्च-यद्य्यावइन्द्रतेशतं यदिन्द्रयावतस्त्वमिति प्रगाथौ स्तोत्रियानुरू- पाविति ।