आ प᳚प्राथ महि॒ना वृष्ण्या᳚ वृष॒न्विश्वा᳚ शविष्ठ॒ शव᳚सा ।
अ॒स्मा{4} अ᳚व मघव॒न्गोम᳚ति व्र॒जे वज्रि᳚ञ्चि॒त्राभि᳚रू॒तिभि᳚ः ॥
अ॒स्मा{4} अ᳚व मघव॒न्गोम᳚ति व्र॒जे वज्रि᳚ञ्चि॒त्राभि᳚रू॒तिभि᳚ः ॥
पदपाठः (Word-by-word)
आ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या᳚ । वृ॒ष॒न् । विश्वा᳚ । श॒वि॒ष्ठ॒ । शव᳚सा ।
अ॒स्मान् । अ॒व॒ । म॒घ॒॑व॒न् । गो॑म᳚ति । व्र॒जे । वज्रि᳚न् । चि॒त्राभिः᳚ । ऊ॒ति॑भिः᳚ ॥
अ॒स्मान् । अ॒व॒ । म॒घ॒॑व॒न् । गो॑म᳚ति । व्र॒जे । वज्रि᳚न् । चि॒त्राभिः᳚ । ऊ॒ति॑भिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे शविष्ठ मघवन् बलवन् धनवन् हे वृषन् अभिमतवर्षकेन्द्र त्वं आपप्राथ आपूरयसि व्याप्नोषि । कानि विश्वा विश्वानि सर्वाणि वृष्ण्या वर्ष- काणि बलानि शत्रुसंबन्धीनि । केनसाधनेन महिना महता शवसा बलेन स्वीयेन । अथवा वृष्ण्येत्येतच्छवोविशेषणं तथा सति अभिमतवर्ष- केण महता बलेनास्मदीयानि बलानि पूरयसीत्यर्थः । अथ तथाकृत्वा अस्मान्गोमति बहुभिर्गोभिर्युक्ते व्रजे शत्रुसंबन्धिनि निमेत्ते सत्यस्मानव । हे वज्रिन् वज्रयुक्तेन्द्र कैः साधनैः चित्राभिर्नानाविधैरूतिभीरक्षणैरिति ॥ ६ ॥