श्रवणम्

8.70.7
न सी॒मदे᳚व आप॒दिषं᳚ दीर्घायो॒ मर्त्य᳚ः ।
एत᳚ग्वा चि॒द्य एत᳚शा यु॒योज᳚ते॒ हरी॒ इन्द्रो᳚ यु॒योज᳚ते ॥
▶ पदपाठः (Word-by-word)
न । सी॒म् । अदे᳚वः । आ॒प॒त् । इष᳚म् । दी॒र्घा॒यो॒ इति᳚ दीर्घ॑आयो । मर्त्यः᳚ ।
एत᳚॑ग्वा । चि॒त् । यः । एत᳚शा । यु॒योज᳚ते । हरी॒ इति᳚ । इन्द्रः᳚ । यु॒योज᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दीर्घायो नित्येन्द्र सः अदेवः इन्द्राख्यदेवरहितो मर्त्योमरणधर्मा मनुष्यो सीं सर्वमिषमन्नं नापत् नप्राप्नोति । योमर्त्योस्येन्द्रस्य एतग्वाचित् एतवर्णावेवाश्वौ भवतोभिमतदेशगमनाय एतशा एतशौ अश्वौ युयोजते योजयति रथे यज्ञंगन्तुम् यश्चेन्द्रोहरी युयोजते तं न यः स्तौति सनप्राप्नोतीति समन्वयः ॥ ७ ॥