श्रवणम्

8.70.9
उदू॒ षु णो᳚ वसो म॒हे मृ॒शस्व᳚ शूर॒ राध᳚से ।
उदू॒ षु म॒ह्यै म᳚घवन्म॒घत्त᳚य॒ उदि᳚न्द्र॒ श्रव᳚से म॒हे ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । सु । नः॒ । व॒सो॒ इति᳚ । म॒हे । मृ॒शस्व᳚ । शू॒र॒ । राध᳚से ।
उत् । ऊं॒ इति᳚ । सु । म॒ह्यै । म॒घ॒॑व॒न् । म॒घत्त᳚ये । उत् । इ॒न्द्र॒ । श्रव᳚से । म॒हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासयितः शूरेन्द्र त्वं नोस्मान् सु सुष्ठु उदुमृशस्व उन्मृशस्वैव उत्थापय किमर्थं महे महते राधसेन्नाय । तथा हे शूर मघवन् इन्द्र उन्मृशस्व मह्यै महते मघत्त्ये धनदानाय तथोन्मृशस्वेन्द्र महे महत्यै श्रवसे कीर्त्यै ॥ ९ ॥