श्रवणम्

8.70.12
त्वं न᳚ इन्द्रासां॒ हस्ते᳚ शविष्ठ दा॒वने᳚ ।
धा॒नानां॒ न सं गृ᳚भायास्म॒युर्द्विः सं गृ᳚भायास्म॒युः ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । इ॒न्द्र॒ । आ॒सा॒म् । हस्ते᳚ । श॒वि॒ष्ठ॒ । दा॒वने᳚ ।
धा॒नाना᳚म् । न । सम् । गृ॒भा॒य॒ । अ॒स्म॒॑युः । द्विः । सम् । गृ॒भा॒य॒ । अ॒स्म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शविष्ठ बलवन्निन्द्र त्वं नोस्मभ्यं दावने प्रदानाय आसां गवां कर्मणिषष्ठी एतागाः हस्ते गृभाय गृहाण । ग्रहणे दृष्टान्तः-धानानां न धाना भृष्ट- यवाः अत्रापि कर्मणिषष्ठी धानायथा संगृह्णाति तद्वद्गृहाण । कीदृशस्त्वं अस्मयुरस्मान् कामयमानः गृहीत्वा चास्मयुः सन् द्विः संगृभाय पुनर्द्विवारं संगृहाण ॥ १२ ॥