श्रवणम्

8.70.2
इन्द्रं॒ तं शु᳚म्भ पुरुहन्म॒न्नव᳚से॒ यस्य᳚ द्वि॒ता वि᳚ध॒र्तरि᳚ ।
हस्ता᳚य॒ वज्र॒ः प्रति᳚ धायि दर्श॒तो म॒हो दि॒वे न सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । तम् । शु॒म्भ॒ । पु॒रु॒॑ह॒न्म॒न् । अव᳚से । यस्य᳚ । द्वि॒ता । वि॒॑ध॒र्तरि᳚ ।
हस्ता᳚य । वज्रः᳚ । प्रति᳚ । धा॒यि॒ । द॒र्श॒तः । म॒हः । दि॒वे । न । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहन्मन् ऋषे त्वं तमिन्द्रं शुंभ हविःप्रदानादिनालंकुरु । किमर्थं अवसे रक्षणाय एवमात्मना स्वात्मानं संबोध्य ब्रवीति-यस्य तव विधर्तरि विधारके इन्द्रे द्विता द्वित्वमस्ति औग्र्यमनौग्र्यं तव शत्रून् हन्तुमुग्रत्वं त्वदनुग्रहायानौग्र्यंचेति द्वैतमस्ति । तत्रौग्र्यं चिह्नं दर्शयति हस्ताय कराय हननाय शत्रूणां दर्शतो दर्शनीयः महोमहान्वज्रः प्रतिधायि प्रतिनिहितो भवति । दिवे प्रकाशाय दिवसायवा अथवा दिवि दृश्यमानः सूर्योन सूर्यइव ॥ २ ॥ तस्मिन्नेवशस्त्रे नकिष्टमिति प्रगाथो वैकल्पिकःस्तोत्रियः सूत्रितञ्च-नकिष्टंकर्मणानशन्नत्वाबहन्तोअद्रयइति ।