श्रवणम्

8.70.3
नकि॒ष्टं कर्म᳚णा नश॒द्यश्च॒कार᳚ स॒दावृ᳚धम् ।
इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू᳚र्त॒मृभ्व᳚स॒मधृ᳚ष्टं धृ॒ष्ण्वो᳚जसम् ॥
▶ पदपाठः (Word-by-word)
नकिः᳚ । तम् । कर्म᳚णा । न॒श॒त् । यः । च॒कार᳚ । स॒दा॑वृ᳚धम् ।
इन्द्र᳚म् । न । य॒ज्ञैः । वि॒श्व॑गू᳚र्तम् । ऋभ्व᳚सम् । अधृ᳚ष्टम् । धृ॒ष्णु॑ओ᳚जसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं जनं अन्योमर्षकोजनः कर्मण हननादिव्यापारेण नकिर्नशत् नैवव्याप्नोति यइन्द्रं चकार इन्द्रमेवानुकूलं यज्ञैः साधनैः । कीदृशमिन्द्रं सदावृधं सदावर्धकं विश्वगूर्तं सर्वैःस्तुत्यं ऋभ्वसः महान्तं अधृष्टमन्यैः धृष्ण्वोजसं धर्षकबलम् ॥ ३ ॥