श्रवणम्

8.70.11
अ॒न्यव्र᳚त॒ममा᳚नुष॒मय᳚ज्वान॒मदे᳚वयुम् ।
अव॒ स्वः सखा᳚ दुधुवीत॒ पर्व᳚तः सु॒घ्नाय॒ दस्युं॒ पर्व᳚तः ॥
▶ पदपाठः (Word-by-word)
अ॒न्य॑व्र᳚तम् । अमा᳚नुषम् । अय᳚ज्वानम् । अदे᳚व॑युम् ।
अव᳚ । स्वः । सखा᳚ । दु॒धु॒वी॒त॒ । पर्व᳚तः । सु॒॑घ्नाय᳚ । दस्यु᳚म् । पर्व᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अन्यव्रतं व्यतिरिक्तकर्माणं अतएव अमानुषं मानुषाणां इन्द्रयाजिनामप्रियं अयज्वानं अयष्टारं अदेवयुं अदेवकर्मिणं पापिनं स्वः स्वर्गादवदु- धुवीत अवचालयेदित्यर्थः । कः सखा पर्वतः तव सखिभूतः पर्वतऋषिः यद्यप्यन्यं देवमिष्ट्वा स्वर्गंप्राप्नोति सः तथापि पातयति ऋषिः । नकेवलं धूननमात्रं अपितु सुघ्नाय सुष्ठु हंत्रे मृत्यवे दस्युमुक्तलक्षणं पर्वतः प्रेरयतीति शेषः । अत इन्द्रमेवावश्यं यजध्वमिति शेषः ॥ ११ ॥