अष्टमं मण्डलम् - सूक्तम् 95

9 ऋचः

ऋषिः: तिरश्चीः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 8.95 - सम्पूर्णम्

1 / 9
ऋक्: 8.95.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
8.95.1
आ त्वा॒ गिरो᳚ र॒थीरि॒वास्थु᳚ः सु॒तेषु᳚ गिर्वणः ।
अ॒भि त्वा॒ सम᳚नूष॒तेन्द्र᳚ व॒त्सं न मा॒तरः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । गिरः᳚ । र॒थीः॑इ᳚व । अस्थुः᳚ । सु॒तेषु᳚ । गि॒र्व॒णः॒ ।
अ॒भि । त्वा॒ । सम् । अ॒नू॒ष॒त॒ । इन्द्र᳚ । व॒त्सम् । न । मा॒तरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणः गीर्भिर्वननीयेन्द्र सुतेषु अभिषुतेषु सत्सु गिरोस्माकं स्तुतिलक्षणावाचः त्वा त्वां आस्थुः आभिमुख्येन शीघ्रं तिष्ठन्ति । तत्रदृष्टान्तः- रथीरिव यथा रथवान् रथेन गच्छन् वीरः प्राप्यं देशं क्षिप्रं गच्छति तद्वदस्माभिरपिगन्तव्यं त्वां स्तुतयोभिगच्छन्ति । किंच हे इन्द्र अस्मदीयागिरः त्वा त्वामभिलक्ष्य समनूषत सम्यक् शब्दायन्ते स्तुवन्तीत्यर्थः । नूस्तवने कुटादिः तस्य लुङिरूपम् । तत्रदृष्टान्तः-वत्संन मातरः यथा मातरोगावः वत्सं अभिलक्ष्य हंभारवादिशब्दं कुर्वन्ति तद्वत् ॥ १ ॥

8.95.2
आ त्वा᳚ शु॒क्रा अ᳚चुच्यवुः सु॒तास᳚ इन्द्र गिर्वणः ।
पिबा॒ त्व१॒᳚स्यान्ध᳚स॒ इन्द्र॒ विश्वा᳚सु ते हि॒तम् ॥
▶ पदपाठः (Word-by-word)
आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः᳚ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
पिब᳚ । तु । अ॒स्य । अन्ध᳚सः । इन्द्र᳚ । विश्वा᳚सु । ते॒ । हि॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणोगीर्भिर्वननीयेन्द्र शुक्राः ग्रहेषु पात्रेषुच दीयमानाः सुतासोस्माभिरभिषुताः सोमाः त्वा त्वां आचुच्यवुः आगच्छन्तु । च्युङ्प्लुङ्गतौ लुङि बहुलंछन्दसीति शपःश्लुः ततस्त्वमस्माभिर्दीयमानस्यास्यांधसः सोमस्य भवदीयं भागं तु क्षिप्रं पिब । यद्वा क्रियाग्रहणंकत्रव्यमिति संप्रदानं चतुर्थ्यर्थे बहुलंछन्दसीति षष्ठी तदिदंसोमरूपमन्नं शीघ्रं पिब । तदेवोपपादयति-हे इन्द्र विश्वासु सर्वासु दिक्षु ते त्वदर्थं सोमपुरोडाशादिहविर्हितं निहितं भवति ॥ २ ॥

8.95.3 समानपद
पिबा॒ सोमं॒ मदा᳚य॒ कमिन्द्र᳚ श्ये॒नाभृ᳚तं सु॒तम् ।
त्वं हि शश्व᳚तीनां॒ पती॒ राजा᳚ वि॒शामसि᳚ ॥
▶ पदपाठः (Word-by-word)
पिब᳚ । सोम᳚म् । मदा᳚य । कम् । इन्द्र᳚ । श्ये॒न॑आ᳚भृतम् । सु॒तम् ।
त्वम् । हि । शश्व᳚तीनाम् । पतिः᳚ । राजा᳚ । वि॒शाम् । असि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं श्येनाभृतं हृग्रर्भश्छन्दसीति हकारस्यभकारः द्युलोकात् श्येनरूपया गायत्र्या आहृतं सुतमभिषुतं सोमं मदाय हर्षाय पिब कमितिपूरणः सुखार्थेवा सुखेन सोमं पिब । हिशब्दो हेतौ हि यस्मात्त्वं शश्वतीनां बह्वीनां विशां मरुद्गणानां सर्वेषां देवगणानां च पतिः पालयिता स्वामी असि भवसि तथा राजा स्वतेजसा दीप्यमानश्चासि अतस्त्वं पुर्वं सोमं पिबेति ॥ ३ ॥ आभिप्लविकेषूक्थेषु तृप्तीयसवनेच्छावाकस्य श्रुधीहवंतिरश्च्याइति वैकल्पिकः स्तोत्रियः । सूत्रितंच-श्रुधीहवंतिरश्च्या आश्रुत्कर्णश्रुधीहवमिति ।

8.95.4
श्रु॒धी हवं᳚ तिर॒श्च्या इन्द्र॒ यस्त्वा᳚ सप॒र्यति᳚ ।
सु॒वीर्य᳚स्य॒ गोम᳚तो रा॒यस्पू᳚र्धि म॒हा{4} अ᳚सि ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । हव᳚म् । ति॒र॒श्च्याः । इन्द्र᳚ । यः । त्वा॒ । स॒प॒र्यति᳚ ।
सु॒॑वीर्य᳚स्य । गो॑म᳚तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यः त्वा त्वां सपर्यति सपरशब्दः कंड्वादिः हविर्भिः परिचरति तादृशस्य तिरश्च्यः एतन्नामकस्य ऋषेः मम हवं स्तुतिभिः त्वद्विषयमाह्वानं श्रुधि शृणु । श्रुत्वाच हे इन्द्र त्वं सुवीर्यस्य शोभनवीर्योपेतस्य यद्वा वीरे पुत्रे भवं वीर्यं सुपुत्रवतः गोमतः गवादिपशुमतः रायोधनस्यदानेन पूर्धि अस्मान्पूरय । एतत्सामर्थ्यं कुतइत्यतआह-त्वं महान् गुणाधिकः देवानां श्रेष्ठश्चासि भवसि खलु ॥ ४ ॥

8.95.5
इन्द्र॒ यस्ते॒ नवी᳚यसीं॒ गिरं᳚ म॒न्द्रामजी᳚जनत् ।
चि॒कि॒त्विन्म᳚नसं॒ धियं᳚ प्र॒त्नामृ॒तस्य᳚ पि॒प्युषी᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । यः । ते॒ । नवी᳚यसीम् । गिर᳚म् । म॒न्द्राम् । अजी᳚जनत् ।
चि॒कि॒त्वित्॑म᳚नसम् । धिय᳚म् । प्र॒त्नाम् । ऋ॒तस्य᳚ । पि॒प्युषी᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र योयजमानो नवीयसीं नवतरां पुनःपुनः क्रियमाणतया मन्द्रां मदकरीं गिरं स्तुतिलक्षणां वाचं ते त्वदर्थं अजीजनत् उदपीपदत् अकार्षीदि- त्यर्थः । तस्मै स्तोत्रे त्वं पत्नां पुरातनं ऋतस्य संबन्धि यद्वा तृतीयार्थे षष्ठी सत्येन पिप्युषी प्रवृद्धं लिड्यङोश्चेति प्यायतेःपीभावः तादृशं चिकि- त्विन्मनसम् । कितज्ञाने क्वसौ रूपं आकारस्येकारश्छान्दसः चिकित्वांसि ज्ञातानि सर्वेषां हृदयानिययेति अमायया क्रियमाणं यत्तवरक्षणं सर्वेषां हृदयं प्रज्ञापयतीति तत्अतीन्द्रियार्थदर्शकं धियं त्वदीयं रक्षणाख्यं तस्मै कुरु ॥ ५ ॥

8.95.6
तमु᳚ ष्टवाम॒ यं गिर॒ इन्द्र᳚मु॒क्थानि᳚ वावृ॒धुः ।
पु॒रूण्य᳚स्य॒ पौंस्या॒ सिषा᳚सन्तो वनामहे ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्त॒वा॒म॒ । यम् । गिरः᳚ । इन्द्र᳚म् । उ॒क्थानि᳚ । व॒वृ॒धुः ।
पु॒रूणि᳚ । अ॒स्य॒ । पौंस्या᳚ । सिसा᳚सन्तः । व॒ना॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषयः परस्परमाहुः तं पूर्वोक्तलक्षणं उइत्यवधारणे तमेवेन्द्रं स्तवाम स्तुतिभिः स्तुमः । यं इन्द्रं गिरोस्माकं स्तुतयः उक्थानि शस्त्राणिच वावृधुः प्रावर्धयन् तं स्तुमः । ततोवयं अस्येन्द्रस्य पुरूणि बहूनि पौंस्या वीर्याणि सिसासन्तः षणसंभक्तौ सनीडभावपक्षे आत्वेकृते सनोते- रनइति सांहितिकं षत्वं तानि वीर्याणि संभक्तुमिच्छन्तः सन्तः वनामहे तमिन्द्रं स्तुतिभिः संभजामहे ॥ ६ ॥

8.95.7
एतो॒ न्विन्द्रं॒ स्तवा᳚म शु॒द्धं शु॒द्धेन॒ साम्ना᳚ ।
शु॒द्धैरु॒क्थैर्वा᳚वृ॒ध्वांसं᳚ शु॒द्ध आ॒शीर्वा᳚न्ममत्तु ॥
▶ पदपाठः (Word-by-word)
एतो॒ इति᳚ । नु । इन्द्र᳚म् । स्तवा᳚म । शु॒द्धम् । शु॒द्धेन᳚ । साम्ना᳚ ।
शु॒द्धैः । उ॒क्थैः । व॒वृ॒ध्वांस᳚म् । शु॒द्धः । आ॒शीः॑वा᳚न् । म॒म॒त्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेतिहासमाचक्षते-पुराकिलेन्द्रो वृत्रादिकानसुरान् हत्वा ब्रह्महत्यादिदोषेणात्मानमपरिशुद्धमित्यमन्यत ततस्तद्दोषपरिहारायेन्द्रः ऋषीनवोचत् अपूतं मां युष्मदीयेन साम्ना शुद्धं कुरुतेति । ततस्तेच सूध्युत्पादकेन साम्ना शस्त्रैश्च परिशुद्धमकार्षुः पश्चात्पूतायेन्द्राय यागादिकर्माणि सोमादीनि हवींषि प्रादुरिति । एषोर्थः शाट्यायनकब्राह्मणे प्रतिपादितः-इन्द्रोवासुरान्हत्वापूतइवामेध्योमन्यत सोकामयत शुद्धमेव मासंतं शुद्धेन साम्ना स्तुयुरिति । सऋषीनब्रवीत् स्तुतमेति ततऋषयःसामापश्यन्तेनास्तुवन्नेतोन्विन्द्रमिति । ततोवाइन्द्रः पुतः शुद्धोमेध्योभवदिति । तथाचास्या ऋचोयमर्थः-ऋषयः परस्परं ब्रुवन्ति नु क्षिप्रमेतोआगच्छतैव आगत्यच शुद्धेन शुध्युत्पादकेन साम्ना तथा शुद्धैः शुद्धिहेतुभिरुक्थैः शस्त्रैश्चेन्द्रं शुद्ध- मपापिनं कृत्वा स्तवाम स्तुयाम ततः सामशस्त्रैश्च वावृध्वांसं पापराहित्येन वर्धमानं तमिममिन्द्रं शुद्धः दशापवित्रेण आशीर्वान् आश्रयणवान् गव्यादिभिः छन्दसीरइति मतुपोवत्वं तादृशः सोमोममत्तु इन्द्रं मादयतु । मदायतेश्छान्दसः श्लुः ॥ ७ ॥

8.95.8
इन्द्र᳚ शु॒द्धो न॒ आ ग᳚हि शु॒द्धः शु॒द्धाभि᳚रू॒तिभि᳚ः ।
शु॒द्धो र॒यिं नि धा᳚रय शु॒द्धो म᳚मद्धि सो॒म्यः ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । शु॒द्धः । नः॒ । आ । ग॒हि॒ । शु॒द्धः । शु॒द्धाभिः᳚ । ऊ॒ति॑भिः᳚ ।
शु॒द्धः । र॒यिम् । नि । धा॒र॒य॒ । शु॒द्धः । म॒म॒द्धि॒ । सो॒म्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र शुद्धः अस्मदीयैः सामभिः शस्त्रैश्च परिशुद्धस्त्वं नोस्मानागहि आगच्छ । शुद्धाभिरूतिभिः ऊतयोमरुतः अवन्ति सर्वत्रगच्छन्तीतिवा तेपि सामभिः शस्त्रैः परिपूताः तैर्मरुद्भिः सह शुद्धः पापरहि स्त्वमागहि आगत्यच शुद्धस्त्वं रयिं धनमस्मासु निधारय नितरां स्थापय । किंच शुद्धस्त्वं सोम्यः सोमार्होभूत्वा ममद्धि सोमेन माद्य । मदीहर्षे लोटि बहुलंछन्दसीति शपःश्लुः ॥ ८ ॥

8.95.9
इन्द्र᳚ शु॒द्धो हि नो᳚ र॒यिं शु॒द्धो रत्ना᳚नि दा॒शुषे᳚ ।
शु॒द्धो वृ॒त्राणि᳚ जिघ्नसे शु॒द्धो वाजं᳚ सिषाससि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । शु॒द्धः । हि । नः॒ । र॒यिम् । शु॒द्धः । रत्ना᳚नि । दा॒शुषे᳚ ।
शु॒द्धः । वृ॒त्राणि᳚ । जि॒घ्न॒से॒ । शु॒द्धः । वाज᳚म् । सि॒सा॒स॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र शुद्धः हिरवधारणे सुद्धएव त्वं रयिं धनं नोस्मभ्यं प्रयच्छ । तथा शुद्धस्त्वं दाशुषे हविर्दत्तवते यजमानाय रत्नानि रमणीयानि धनादीनिच देहि । ततः शुद्धः पापरहितस्त्वं वृत्राणि अपामावरकान् कर्मविघ्नकारिणः शत्रून् पापानिवा जिघ्नसे हंसि । ततः सुद्धः शत्रुहननदोषपरिहाराय अस्मदीयैः सामभिः शस्त्रैः परिशुद्धस्त्वं वाजमन्नं अस्मभ्यं सिसाससि प्रदतुमिच्छसि । यदा यदा शत्रूनह हन्यां तदातदा शुद्भ्युत्पादकैः सामभिः शस्त्रैश्च यूयं मां परिशुद्धं कुरुतेति अस्मभ्यमन्नं दातुं इच्छसीत्यर्थः ॥ ९ ॥

अस्माइत्येकविंशत्यृचं तृतीयं सूक्तम् । अत्रानुक्रम्यते-अस्मैसैका द्युतानोवा मारुतस्त्रैष्टुभं चतुर्थीविराळिष्यामीति मारुतः पादः परैन्द्राबार्हस्प- त्येति । द्युतानाख्यो मरुतांपुत्रऋषिः तिरश्चीर्नामांगिरसोवा । चतुर्थीविराट् शिष्टास्त्रिष्टुभः इन्द्रोदेवता इष्यामिवोमरुतइतिपादोमरुद्देवत्यः अवद्रप्सइत्येषात्विन्द्राबृहस्पतिदेवताका सूक्तविनियोगोलिंगादवगन्तव्यः ।