अतू᳚र्तदक्षा वृषणा वृषण्वसू ॥
पदपाठः (Word-by-word)
अतू᳚र्त॑दक्षा । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू ॥
सायणभाष्यम् (Sayana Commentary)
युवोरुष्विति पंचविंशत्यृचं षष्ठं सूक्तम् । अत्रानुक्रमणिका-युवोःपच्चाधिका व्यश्वोवांगिरसआश्विनं विंश्याद्यावायव्यास्तत्पूर्वाश्चतस्रोगायत्र्योन्त्येकविं- श्यौच विंश्यनुष्टुबिति । आंगिरसौव्यश्व्यौ वैयश्वो विश्वमनावाऋषिः षोडश्याद्याश्चतस्रोगायत्र्यः विंश्यनुष्टुप् एकविंशीपच्चविंशीच गायत्र्यौ शिष्टाः पूर्ववदुष्णिहः अश्विनौ देवता विंश्याद्याःपच्चर्चोवायुदेवताकाः प्रातरनुवाकेआश्विनेक्रतावुष्णिहेछन्दस्याश्विनशस्त्रेचादितःपच्चदशर्चः सूत्रितच्च-युवो- रुषूरथंहुवइति पच्चदशेत्यौष्णिहमिति ।
हे अतूर्तदक्षा तृप्लवनतरणयोरित्यस्यनिष्ठायां नसत्तेतिसूत्रेणनिपातितः परैरहिंसितबलौ वृषणा वृषणौ कामानां सेक्तारौ अतएव वृषण्वसू वर्षण- शीलधनवन्तौ अश्विनौ युवोर्युवयोरथं सुहुवे सुष्ठु स्तोत्रादिभिराह्वयामि । किमर्थं सूरिषु प्राज्ञेषु स्तोतृषु मध्ये सधस्तुत्याय स्तौतेर्भावेक्यप् सहभ- वन्तौ स्तोतुं तस्माद्युवयोः शीघ्रगत्यै युष्मद्गमनसाधनरथमेवाह्वयामि ॥ १ ॥