श्रवणम्

8.26.3
ता वा᳚म॒द्य ह᳚वामहे ह॒व्येभि᳚र्वाजिनीवसू ।
पू॒र्वीरि॒ष इ॒षय᳚न्ता॒वति᳚ क्ष॒पः ॥
▶ पदपाठः (Word-by-word)
ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः᳚ । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ।
पू॒र्वीः । इ॒षः । इ॒षय᳚न्तौ । अति᳚ । क्ष॒पः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजिनीवसू अन्नयुक्तधनवन्तावश्विनौ पूर्वीःबहूनि इषोन्नानि इषयन्तौ इष इच्छायां इच्छन्तौ ता तौ प्रसिद्धौ वां युवां अद्यास्मिन्यागदिने अति- क्षपः क्षपायाअतिक्रमे उषःकाले इत्यर्थः तस्मिन्नुषःकाले हव्येभिर्हविर्लक्षणैरन्नैः सह वयं हवामहे आह्वयामः आश्विनशस्त्रस्य तत्र शस्यमानत्वादु- षःकालएवाह यागइत्यथः ॥ ३ ॥