श्रवणम्

8.26.2
यु॒वं व᳚रो सु॒षाम्णे᳚ म॒हे तने᳚ नासत्या ।
अवो᳚भिर्याथो वृषणा वृषण्वसू ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । व॒रो॒ इति᳚ । सु॒॑साम्णे᳚ । म॒हे । तने᳚ । ना॒स॒त्या॒ ।
अवः᳚॑भिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिर्वरुंराजानं संबोध्य आह हे नासत्या नासत्यौ न विद्यते असत्यमनयोरिति नासत्यौ वृषणा कामानां वर्षितारौ वृषण्वसू वर्षणशीलवसुमन्तौ अश्विनौ युवं युवां सुषाम्णे सुषामाख्यराज्ञे मम पित्रे अस्मै महे महते तने तनोतीतितनं धनं धनाय । क्रियार्थोपपदस्येति चतुर्थीतस्मै धनं दातुं पुरा यथा आगच्छतम् तद्वन्मत्द्यमपि धनं दातुं अवोभिः पालनैः सह याथः युवामायातमिति । हे वरो वरुनामकराजन्नेवं ब्रूहीतिऋषिर्वदति ॥ २ ॥