श्रवणम्

8.26.16
वाहि᳚ष्ठो वां॒ हवा᳚नां॒ स्तोमो᳚ दू॒तो हु᳚वन्नरा ।
यु॒वाभ्यां᳚ भूत्वश्विना ॥
▶ पदपाठः (Word-by-word)
वाहि᳚ष्ठः । वा॒म् । हवा᳚नाम् । स्तोमः᳚ । दू॒तः । हु॒व॒त् । न॒रा॒ ।
यु॒वाभ्या᳚म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरा नरौ सर्वस्य नेतारौ अश्विनौ हवानां स्तोतृणां स्तोत्राणां मध्ये स्तोमोवाहिष्ठःयुवामतिशयेन व्यामुवन् मदीयः स्तोमः दूतः दूतभूतःसन् हुवत् आह्वयतु सोयं मदीयः स्तोमः युवाभ्यां प्रियकरोभूतु भवतु ॥ १६ ॥