श्रवणम्

8.26.14 समानपद
यो वा᳚मुरु॒व्यच᳚स्तमं॒ चिके᳚तति नृ॒पाय्य᳚म् ।
व॒र्तिर᳚श्विना॒ परि᳚ यातमस्म॒यू ॥
▶ पदपाठः (Word-by-word)
यः । वा॒म् । उ॒रु॒व्यचः᳚॑तमम् । चिके᳚तति । नृ॒॑पाय्य᳚म् ।
व॒र्तिः । अ॒श्वि॒ना॒ । परि᳚ । या॒त॒म् । अ॒स्म॒यू इत्य᳚स्म॒॑यू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ उरुव्यचस्तमं अतिशयेन ग्रहेषुभूतं व्याप्तं नृपाय्यं नेतृभ्यां युवाभ्यां पातव्यं सोमं योमनुष्यः वां युवाभ्यां तं सोमं दातुं चिकेतति भृशं जानाति तस्य वर्तिः वर्ततेत्रेति वर्तिर्गृहं अस्मयू अस्मान् पूजार्थं बहुवचनं विश्वमनसं मां कामयमानौ युवां परियातं सोमपानार्थं तस्य गृहं प्रत्या- यातम् । चिकेतति कितज्ञाने इत्यस्य यङ्लुगन्तस्य लेट्यडागमः ॥ १४ ॥