उप᳚ नो यातमश्विना रा॒या वि᳚श्व॒पुषा᳚ स॒ह ।
म॒घवा᳚ना सु॒वीरा॒वन᳚पच्युता ॥
म॒घवा᳚ना सु॒वीरा॒वन᳚पच्युता ॥
पदपाठः (Word-by-word)
उप᳚ । नः॒ । या॒त॒म् । अ॒श्वि॒ना॒ । रा॒या । वि॒श्व॒॑पुषा᳚ । स॒ह ।
म॒घ॑वा᳚ना । सु॒॑वीरौ᳚ । अन᳚प॑च्युता ॥
म॒घ॑वा᳚ना । सु॒॑वीरौ᳚ । अन᳚प॑च्युता ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ विश्वपुषा विश्वस्य सर्वस्य पोषकेण राया धनेनसह नोस्मदीयं यज्ञमुपयातं उपागच्छतम् यज्ञमागत्य धनमस्मभ्यंप्रयच्छतमि- तिभावः । किमनयोर्धनमस्तीत्यतआह-मघवाना मघवानौ मंहनीयधनवन्तौ सुवीरौ शोभनसामर्थ्योपेतौ । यद्वा वीराः समर्थाः शत्रवः तद्वन्तौ । तथापि अनपच्युता तैरपच्यावनीयौ न भवतः । तौ यज्ञं प्रत्यागच्छतम् ॥ ७ ॥