त्वां हि सु॒प्सर᳚स्तमं नृ॒षद᳚नेषु हू॒महे᳚ ।
ग्रावा᳚णं॒ नाश्व᳚पृष्ठं मं॒हना᳚ ॥
ग्रावा᳚णं॒ नाश्व᳚पृष्ठं मं॒हना᳚ ॥
पदपाठः (Word-by-word)
त्वाम् । हि । सु॒प्सरः᳚॑तमम् । नृ॒॑सद᳚नेषु । हू॒महे᳚ ।
ग्रावा᳚णम् । न । अश्व᳚॑पृष्ठम् । मं॒हना᳚ ॥
ग्रावा᳚णम् । न । अश्व᳚॑पृष्ठम् । मं॒हना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वायो सुप्सरस्तमं सुप्सइति रूपनाम रोमत्वर्थीयः अतिशयेन शोभनरूपवन्तं मंहना स्वकीयेन महत्त्वेन अश्वपृष्ठं सर्वतोव्याप्तपृष्ठं पृष्ठशब्दः सर्वांगं लक्षयति व्याप्तकृस्नांगमित्यर्थः त्वां हिरवधारणे त्वामेव नृषदनेषु नृसदनेषु नरः अध्वरस्यनेतारः ऋत्विजोऽत्रसीदन्तीतिनृषदनायज्ञाः तेषु हूमहे वयमाह्वयामः । कथमिव ग्रावाणं न यथा सोमाभिषवार्थं ग्रावाणं स्तुतिभिराह्वयन्ति तद्वत्त्वां स्तुतिभिराह्वयामः ॥ २४ ॥ शुनासीरीये सत्वंनोदेवेत्येषा वायोरनुवाक्या सूत्रितच्च-सत्वंनोदेवमनसेशानायप्रहुतिंयस्तआनडिति ।