वायो᳚ या॒हि शि॒वा दि॒वो वह᳚स्वा॒ सु स्वश्व्य᳚म् ।
वह᳚स्व म॒हः पृ᳚थु॒पक्ष᳚सा॒ रथे᳚ ॥
वह᳚स्व म॒हः पृ᳚थु॒पक्ष᳚सा॒ रथे᳚ ॥
पदपाठः (Word-by-word)
वायो॒ इति᳚ । या॒हि । शि॒व॒ । आ । दि॒वः । वह᳚स्व । सु । सु॒॑अश्व्य᳚म् ।
वह᳚स्व । म॒हः । पृ॒थु॒॑पक्ष᳚सा । रथे᳚ ॥
वह᳚स्व । म॒हः । पृ॒थु॒॑पक्ष᳚सा । रथे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वायो दिवोद्युलोकस्य शिव सुपां सुलुगिति द्वितीयायालुक् शिवं कल्याणमायाहि आप्रापय सर्वज्योतिषां त्वदाधारत्वात् तेषामाधारोभुत्वा द्यु- लोके तानि स्थापयेति प्रार्थयते । ततस्त्वं स्वश्व्यं अश्वानां संघोश्व्यः शोभनाश्वसंघं रथं सु सुष्ठु वहस्व सर्वतोदिक्षु प्रापय । इदानीं तेभ्योपि समर्था- वश्वावावह महोमहान् त्वं पृथुपक्षसा पृथुपार्श्वद्वययुक्तावश्वौ रथे स्वकीये वहस्व शत्रुहननार्थं संयोजय ॥ २३ ॥ वायव्ये पशौ पुरोडाशहविषोस्त्वांहिसुप्सरस्तमं इति द्वे अनुवाक्ये सूत्रितच्च-त्वांहिसुप्सरस्तममितिद्वे कुविदंगनमसायेवृधासइति ।