श्रवणम्

8.26.21
तव᳚ वायवृतस्पते॒ त्वष्टु᳚र्जामातरद्भुत ।
अवां॒स्या वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
तव᳚ । वा॒यो॒ इति᳚ । ऋ॒तः॒॑प॒ते॒ । त्वष्टुः᳚ । जा॒मा॒तः॒ । अ॒द्भु॒त॒ ।
अवां᳚सि । आ । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋतःपते ऋतपते यज्ञानांपते सर्वप्रातिपदिकेभ्योलालसायां सुगिति सुगागमः त्वष्टुर्जामातः ब्रह्मणोजामातः । एषा कथा इतिहासादिभिरवगन्त- व्या । तादृश अद्भुत महन् विचित्रकर्मन् हे वायो तव त्वदीयानि अवांसि पालनानि आवृणीमहे वयमस्मिन्पशुयागे संभजामहे ॥ २१ ॥