अ॒स्मभ्यं॒ सु वृ᳚षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य᳚म् ।
वि॒षु॒द्रुहे᳚व य॒ज्ञमू᳚हथुर्गि॒रा ॥
वि॒षु॒द्रुहे᳚व य॒ज्ञमू᳚हथुर्गि॒रा ॥
पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । सु । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । या॒तम् । व॒र्तिः । नृ॒॑पाय्य᳚म् ।
वि॒षु॒द्रुहा᳚॑इव । य॒ज्ञम् । ऊ॒ह॒थुः॒ । गि॒रा ॥
वि॒षु॒द्रुहा᳚॑इव । य॒ज्ञम् । ऊ॒ह॒थुः॒ । गि॒रा ॥
सायणभाष्यम् (Sayana Commentary)
हे वृषण्वसू वर्षणशीलधनवन्तौ अश्विनौ अस्मभ्यमस्मदर्थं नृपाय्यं नेतृभ्यां पातव्यं सोमंप्रति वर्तिरस्मदीयं गृहंप्रति सुयातं युवां सुष्ठु आयातम् । गि- रा स्तुतिलक्षणया वाचा युवां यज्ञमूहथुः मनुष्येषु यज्ञसमाप्तिं प्रापयथः । तत्रदृष्टान्तः-विषुद्रुहेव द्रुहजिघांसायां विश्वतः हिनस्तिशत्रूनिति विषुद्रुहः शरः तेन यथा व्याधोमृगमभिलषितं देशं प्रापयति तद्वत् स्तुत्या यज्ञमवैकल्येन सप्राप्तिं प्रापयथइत्यर्थः ॥ १५ ॥ प्रातरनुवाके आश्विनेक्रतौ गायत्रेछन्दसि वाहिष्ठोवांह वानामिति चतस्रः । सूत्रितच्च-वाहिष्ठोवांहवानामिति चतस्रउदीराथामामेहवमिति गायत्रमि- ति ।