यु॒क्ष्वा हि त्वं र᳚था॒सहा᳚ यु॒वस्व॒ पोष्या᳚ वसो ।
आन्नो᳚ वायो॒ मधु᳚ पिबा॒स्माकं॒ सव॒ना ग᳚हि ॥
आन्नो᳚ वायो॒ मधु᳚ पिबा॒स्माकं॒ सव॒ना ग᳚हि ॥
पदपाठः (Word-by-word)
यु॒क्ष्व । हि । त्वम् । र॒थ॒॑सहा᳚ । यु॒वस्व᳚ । पोष्या᳚ । व॒सो॒ इति᳚ ।
आत् । नः॒ । वा॒यो॒ इति᳚ । मधु᳚ । पि॒ब॒ । अ॒स्माक᳚म् । सव᳚ना । आ । ग॒हि॒ ॥
आत् । नः॒ । वा॒यो॒ इति᳚ । मधु᳚ । पि॒ब॒ । अ॒स्माक᳚म् । सव᳚ना । आ । ग॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
एतदाद्यावायव्यः हे वायो रथसहा रथसहौ रथवहनसमर्थावश्वौ हिरवधारणे त्वमेव युक्ष्व संयोजय । हे वसो वासयितः शत्रूणां पोष्या पोष्यौ कंठे- षु करतलास्फालनैराश्वास्य पोषणीयौ तावश्वौ युवस्व संग्रामेषु शत्रुवधार्थं मिश्रय । यद्वा अस्मद्यज्ञेषु संमिश्रय ताभ्यां युक्तः सन् यज्ञं प्रत्यागच्छेत्य- र्थः । हे वायो आदनन्तरं नोस्मदीयं मधु मदकरं सोमं त्वं पिब अतएव अस्माकं यज्ञेषु सवना त्रिषु सवनेषु आगहि सोमपानार्थमागच्छ ॥ २० ॥