श्रवणम्

8.26.12 समानपद
यु॒वाद᳚त्तस्य धिष्ण्या यु॒वानी᳚तस्य सू॒रिभि᳚ः ।
अह᳚रहर्वृषण॒ मह्यं᳚ शिक्षतम् ॥
▶ पदपाठः (Word-by-word)
यु॒वा॑द᳚त्तस्य । धि॒ष्ण्या॒ । यु॒वा॑नी᳚तस्य । सू॒रि॑भिः᳚ ।
अहः᳚॑अहः । वृ॒ष॒णा॒ । मह्य᳚म् । शि॒क्ष॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धिष्ण्या धिष्ण्यौ धिष्णार्हौ स्तुत्यौ वृषणा वृषणौ कामानां सेक्तारौ अश्विनौ सूरिभिः सुपांसुपोभवन्तीति चतुर्थ्यास्तृतीया सूरिभ्यःस्तोतृभ्यो यु- वादत्तस्य युवाभ्यां यत् स्तोतृभ्योदीयते तत् । तथा युवानीतस्य युवाभ्यां यत् स्तोतृभ्योनीयते तच्च धनादिकं अहरहः अहन्यहनि मत्द्यं विश्वमनसे स्तोत्रं कुर्वाणाय युवां शिक्षतं प्रयच्छतम् ॥ १२ ॥