त्वष्टु॒र्जामा᳚तरं व॒यमीशा᳚नं रा॒य ई᳚महे ।
सु॒ताव᳚न्तो वा॒युं द्यु॒म्ना जना᳚सः ॥
सु॒ताव᳚न्तो वा॒युं द्यु॒म्ना जना᳚सः ॥
पदपाठः (Word-by-word)
त्वष्टुः᳚ । जामा᳚तरम् । व॒यम् । ईशा᳚नम् । रा॒यः । ई॒म॒हे॒ ।
सु॒त॑व᳚न्तः । वा॒युम् । द्यु॒म्ना । जना᳚सः ॥
सु॒त॑व᳚न्तः । वा॒युम् । द्यु॒म्ना । जना᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
इमे जनासोजनावयं त्वष्टुर्ब्रह्मणोजामातरं ईशानं सर्वस्येश्वरमेतादृशं वायुं सुतवंतोभिषुतसोमाः सयः धनं ईमहे याचामहे तेनदत्तेन वयं द्युम्रा धन- वन्तः स्याम इतिशेषः ॥ २२ ॥ वायव्यतृचे वायोयाहिशिवादिवइत्यादिके द्वे ऋचौ द्वितीयातृतीये सूत्रितच्च-वायोयाहिशिवादिवइतिद्वेइति ।