व॒यं हि वां॒ हवा᳚मह उक्ष॒ण्यन्तो᳚ व्यश्व॒वत् ।
सु॒म॒तिभि॒रुप᳚ विप्रावि॒हा ग᳚तम् ॥
सु॒म॒तिभि॒रुप᳚ विप्रावि॒हा ग᳚तम् ॥
पदपाठः (Word-by-word)
व॒यम् । हि । वा॒म् । हवा᳚महे । उ॒क्ष॒ण्यन्तः᳚ । व्य॒श्व॒॑वत् ।
सु॒म॒ति॑भिः᳚ । उप᳚ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥
सु॒म॒ति॑भिः᳚ । उप᳚ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
उक्षण्यन्तः धनादिसेक्तारावात्मनइच्छन्तोवयं वांहि धनादीनां प्रत्तारौ युवामेव हवामहे तल्लाभार्थमाह्वयामः । तत्रदृष्टान्तः-व्यश्ववत् यथास्माकं पिता युवामेव स्तुत्वा धनमलभत तद्वत् । हे विप्रा मेधाविनौ अश्विनौ सुमतिभिः अस्माभिः क्रियमाणैः कल्याणैः स्तोत्रैः सह । यद्वा सुमतिभिः शो- भनाभिरनुग्रहबुद्धिभिः सह इहास्मिन्यागदिने उपागतम् उपागच्छतम् ॥ ९ ॥