स्मदे॒तया᳚ सुकी॒र्त्याश्वि᳚ना श्वे॒तया᳚ धि॒या ।
वहे᳚थे शुभ्रयावाना ॥
वहे᳚थे शुभ्रयावाना ॥
पदपाठः (Word-by-word)
स्मत् । ए॒तया᳚ । सु॒॑की॒र्त्या । अश्वि᳚ना । श्वे॒तया᳚ । धि॒या ।
वहे᳚थे॒ इति᳚ । शु॒भ्र॒॑या॒वा॒ना॒ ॥
वहे᳚थे॒ इति᳚ । शु॒भ्र॒॑या॒वा॒ना॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शुभ्रयावाना शोभनशीलगमनवन्तौ हे अश्विना अश्विनौ सुकीर्त्या शोभनस्तुत्या श्वेतया श्वेतजलया धिया धारयित्र्या हिरण्मयकूलवत्या उभय- कूलस्थितानां प्राणिनां धनदानेन पोषयित्र्या एतया नद्या स्मत् सुमत् शोभनं वहेथे युवां स्तुतिं प्राप्नुथः एषा युवामस्तौदित्यर्थः ॥ १९ ॥