श्रवणम्

8.26.10
अ॒श्विना॒ स्वृ᳚षे स्तुहि कु॒वित्ते॒ श्रव᳚तो॒ हव᳚म् ।
नेदी᳚यसः कूळयातः प॒णी{4}रु॒त ॥
▶ पदपाठः (Word-by-word)
अ॒श्विना᳚ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव᳚तः । हव᳚म् ।
नेदी᳚यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋषे विश्वमनः अश्विना अश्विनौ देवौ सुष्टुहि शोभनं स्तुहि ततस्तावश्विनौ ते स्तोतुस्तव हवमाह्वानं कुवित् कुविदिति बहुनाम बहुवारं श्रवतः श्रृणुतम् श्रुश्रवणे लेट्यडागमः । एवं त्वयास्तुतावश्विनौ नेदीयसः अन्तिकतमान् शत्रून्कूलयातः हिंस्ताम् । उतापिच पणीनेतन्नामकान् अंगिरोगवा- मपनेतृनसुरानपिहिंस्ताम् । कुडिदाहे ण्यन्तस्य लेट्यडागमः ॥ १० ॥