अष्टमं मण्डलम् - सूक्तम् 14

15 ऋचः

ऋषिः: गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 8.14 - सम्पूर्णम्

1 / 15
ऋक्: 8.14.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
8.14.1
यदि᳚न्द्रा॒हं यथा॒ त्वमीशी᳚य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष᳚खा स्यात् ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । अ॒हम् । यथा᳚ । त्वम् । ईशी᳚य । वस्वः᳚ । एकः᳚ । इत् ।
स्तो॒ता । मे॒ । गो॑स᳚खा । स्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यथा त्वं एकैअत् एकएव केवलं वस्वोवसुनोधनस्य ईशिषे एवमपि यद्यदि अहं ईशीय ऎश्वर्ययुक्तःस्याम् तदानीं मे मम स्तोता गोसाखा स्यात् गोभिः सहितोभवेत् ईश्वरस्य तव स्तोता कुतोहेतोः गोः सहितोन भवेत् अपितु भवेदित्यभिप्रायः ॥ १ ॥

8.14.2
शिक्षे᳚यमस्मै॒ दित्से᳚यं॒ शची᳚पते मनी॒षिणे᳚ ।
यद॒हं गोप᳚ति॒ः स्याम् ॥
▶ पदपाठः (Word-by-word)
शिक्षे᳚यम् । अ॒स्मै॒ । दित्से᳚यम् । शची᳚॑पते । म॒नी॒षिणे᳚ ।
यत् । अ॒हम् । गो॑प᳚तिः । स्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शचीपते शक्तिमन्निन्द्र अस्मै मनीषिणे मनसईशित्रे स्तोत्रे दित्सेयं दातुमिच्छेयम् तदनंतरं शिक्षेयं प्रार्थितं धनं दद्यां च । यद्यदि अहं गोपतिः गवामधिपतिः स्यां भवेयम् त्वत्मसादादितिशेषः ॥ २ ॥

8.14.3
धे॒नुष्ट᳚ इन्द्र सू॒नृता॒ यज᳚मानाय सुन्व॒ते ।
गामश्वं᳚ पि॒प्युषी᳚ दुहे ॥
▶ पदपाठः (Word-by-word)
धे॒नुः । ते॒ । इ॒न्द्र॒ । सू॒नृता᳚ । यज᳚मानाय । सु॒न्व॒ते ।
गाम् । अश्व᳚म् । पि॒प्युषी᳚ । दु॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सूनृता स्तुतिरूपा वाग्धेनुः दोग्ध्री गौर्भूत्वा सुचते सोमाभिषवं कुर्वते यजमानाय गामश्वं च उपलक्षणमेतत् गवाश्चादिकं सर्वम- भिलषितं दुहे दुग्धे । किंकुर्वती पिप्युषी तमेव प्रवर्धयित्री ॥ ३ ॥

8.14.4
न ते᳚ व॒र्तास्ति॒ राध᳚स॒ इन्द्र᳚ दे॒वो न मर्त्य᳚ः ।
यद्दित्स᳚सि स्तु॒तो म॒घम् ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । व॒र्ता । अ॒स्ति॒ । राध᳚सः । इन्द्र᳚ । दे॒वः । न । मर्त्यः᳚ ।
यत् । दित्स᳚सि । स्तु॒तः । म॒घम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव राधसोधनस्य स्तोतृभ्योदातव्यस्य वर्ता निवारकोदेवोनास्ति नविद्यते । न मर्त्यः मनुष्योपि निवारकोनास्ति । स्तुतः स्तोतृभिः प्रख्यापितगुणः सन् यन्मत्द्यं मघं मंहनीयं धनं दित्ससि त्वं दातुमिच्छसि ॥ ४ ॥

8.14.5
य॒ज्ञ इन्द्र᳚मवर्धय॒द्यद्भूमिं॒ व्यव᳚र्तयत् ।
च॒क्रा॒ण ओ᳚प॒शं दि॒वि ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञः । इन्द्र᳚म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि᳚म् । वि । अव᳚र्तयत् ।
च॒क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञोयजमानैरनुष्ठीयमानोयागः इन्द्रं देवमवर्धयत् श्रूयतेहि-इन्द्रइदंहविरजुषतावीवृधतमहोज्ययोकृतेति । सइन्द्रोयद्यस्मान्द्रूमिं पृथिवीं व्यव- र्तयत् वृष्टचादिप्रदानेन विशेषेण वर्तमानामकरोत् । किंकुर्वन् दिव्यन्तरिक्षे मेघं ओपशं उपेत्यशयानं चक्राणः कुर्वन् यद्वा आत्मनि समवेतोवीर्यवि- शेषओपशः तमन्तरिक्षेकुर्वन् ॥ ५ ॥

8.14.6
वा॒वृ॒धा॒नस्य᳚ ते व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः᳚ ।
ऊ॒तिमि॒न्द्रा वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
व॒वृ॒धा॒नस्य᳚ । ते॒ । व॒यम् । विश्वा᳚ । धना᳚नि । जि॒ग्युषः᳚ ।
ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वावृधानस्य वर्धमानस्य विश्वा विश्वानि सर्वाणि धनानि शत्रुसंबंधीनि जिग्युषोजितवतस्ते तव ऊतिं रक्षां वयमावृणीमहे आभिमुख्येन- संभजामहे ॥ ६ ॥

8.14.7
व्य१॒᳚न्तरि᳚क्षमतिर॒न्मदे॒ सोम᳚स्य रोच॒ना ।
इन्द्रो॒ यदभि᳚नद्व॒लम् ॥
▶ पदपाठः (Word-by-word)
वि । अ॒न्तरि᳚क्षम् । अ॒ति॒र॒त् । मदे᳚ । सोम᳚स्य । रो॒च॒ना ।
इन्द्रः᳚ । यत् । अभि᳚नत् । व॒लम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमस्यपानेन मदे हर्षे सति रोचना रोचमानमन्तरिक्षं अयमिन्द्रोव्यतिरत् व्यवर्धयत् यत् यस्मात्कारणात् वलं आवृत्य स्थितमसुरं मेघं वा अभिनत् व्यदारयत् ॥ ७ ॥

8.14.8
उद्गा आ᳚ज॒दङ्गि᳚रोभ्य आ॒विष्कृ॒ण्वन्गुहा᳚ स॒तीः ।
अ॒र्वाञ्चं᳚ नुनुदे व॒लम् ॥
▶ पदपाठः (Word-by-word)
उत् । गाः । आ॒ज॒त् । अङ्गि᳚रः॑भ्यः । आ॒विः । कृ॒ण्वन् । गुहा᳚ । स॒तीः ।
अ॒र्वाञ्च᳚म् । नु॒नु॒दे॒ । व॒लम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरोभ्यऋषिभ्यः वलानुचरैः पणिभिरपहृतागाः उदाजत् उदगमयत् किंकुर्वन् गुहा गुहायां बिले सतीः विद्यमानाः यथा नदृश्यन्ते तथा पणिभिर्गूढाः ता गाः आविष्कृण्वन् प्रकाशयन् अपिच पणीनां अधिपतिं वलमसुरमपि अर्वाञ्चमधोमुखं नुनुदे प्रेरितवान् ॥ ८ ॥

8.14.9
इन्द्रे᳚ण रोच॒ना दि॒वो दृ॒ळ्हानि᳚ दृंहि॒तानि᳚ च ।
स्थि॒राणि॒ न प᳚रा॒णुदे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रे᳚ण । रो॒च॒ना । दि॒वः । दृ॒ळ्हानि᳚ । दृं॒हि॒तानि᳚ । च॒ ।
स्थि॒राणि᳚ । न । प॒रा॒॑नुदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोद्युलोकस्य संबंधीनि सोचना रोचमानानि देवगृहात्मकानि नक्षत्राणि इन्द्रण दृष्ठानि दृढावयवानि बलवन्ति कृतानि दृंहितानि च दृढीकृ- तानि यथा एकत्रनैश्चल्येनावतिष्ठन्ते तथाकृतानीत्यर्थः । यद्वा वृह दृहि वृहि वृद्धौ दृंहितानि वर्धितानिचेत्यर्थः । अपिच स्थिराणि स्थास्नूनि दृढानि तानि न पराणुदे परानोदनीयानि नभवन्ति न केनापि स्थानात्प्रच्यावयितुं शक्यानीत्यर्थः नुदप्रेरणे अस्मात्कृत्यार्थइति केन्प्रत्ययः ॥ ९ ॥

8.14.10
अ॒पामू॒र्मिर्मद᳚न्निव॒ स्तोम᳚ इन्द्राजिरायते ।
वि ते॒ मदा᳚ अराजिषुः ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । ऊ॒र्मिः । मद᳚न्॑इव । स्तोमः᳚ । इ॒न्द्र॒ । अ॒जि॒र॒॑य॒ते॒ ।
वि । ते॒ । मदाः᳚ । अ॒रा॒जि॒षुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपां समुद्राणामूर्मिस्तरंगः मदन्निव यथा माद्यन् उपर्युपरिजायते हे इन्द्र स्तोमस्त्वदीयं स्तोत्रं तथा अजिरायते अजिरः क्षिप्रगामी सइवाच- रति । अपिच ते त्वदीया मदाः स्तोत्रजन्याः सोमपानजन्याश्च विअराजिषुः विशेषेण राजन्ते दीप्यन्ते ॥ १० ॥

8.14.11
त्वं हि स्तो᳚म॒वर्ध᳚न॒ इन्द्रास्यु᳚क्थ॒वर्ध᳚नः ।
स्तो॒तॄ॒णामु॒त भ᳚द्र॒कृत् ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । स्तो॒म॒॑वर्ध᳚नः । इन्द्र᳚ । असि᳚ । उ॒क्थ॒॑वर्ध᳚नः ।
स्तो॒तॄ॒णाम् । उ॒त । भ॒द्र॒॑कृत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं हि त्वं खलु स्तोमवर्धनः स्तोमेन त्रिवृत्पञ्चदशादिना वर्धनीयोसि तथा उक्थवर्धनः उक्थैः शस्त्रैर्वर्धनीयश्च त्वमेवासि । उतापिच स्तोतृणामस्माकं भद्रकृत् भद्रस्य कल्याणस्य फलस्य कर्तापि त्वमेवासि ॥ ११ ॥

8.14.12
इन्द्र॒मित्के॒शिना॒ हरी᳚ सोम॒पेया᳚य वक्षतः ।
उप᳚ य॒ज्ञं सु॒राध᳚सम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । इत् । के॒शिना᳚ । हरी॒ इति᳚ । सो॒म॒॑पेया᳚य । व॒क्ष॒तः॒ ।
उप᳚ । य॒ज्ञम् । सु॒॑राध᳚सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

केशिना केशिनौ मूर्धजानि लोमानि केशास्तद्वन्तौ हरी अश्वौ सुराधसं शोभनधनं इन्द्रमित् इन्द्रमेव यज्ञमुपास्मद्यज्ञं प्रति सोमपेयाय सोमपा- नार्थं वक्षतः वहतां यद्वा यज्ञं यष्टव्यमिंद्रं उपवहताम् ॥ १२ ॥

8.14.13
अ॒पां फेने᳚न॒ नमु᳚चे॒ः शिर᳚ इ॒न्द्रोद᳚वर्तयः ।
विश्वा॒ यदज᳚य॒ः स्पृधः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । फेने᳚न । नमु᳚चेः । शिरः᳚ । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒यः॒ ।
विश्वाः᳚ । यत् । अज᳚यः । स्पृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा किलेन्द्रोसुरान् जित्वा न मुचिमसुरं ग्रहीतुं न शशाक सच युध्यमानस्तेनासुरेण जगृहे सच गृहीतमिन्द्रमेवमवोचत् त्वां विसृजामि रात्रा- वह्निच शुष्केणार्द्रेण चायुधेन यदि मां माहिंसीरिति । सइन्द्रस्तेनविसृष्टः सन् अहोरात्रयोः संधौ शुष्कार्द्रविलक्षणेन फेनेन तस्यशिरश्चिच्छेद अय- मर्थोस्यां प्रतिपाद्यते-हे इन्द्र अपां फेनेन वज्त्रीभूतेन नमुचेरसुरस्य शिरः उदवर्तयः शरीरादुद्गतमवर्तयः अच्छेत्सीरित्यर्थः । कदेतिचेत् यद्यदा विश्वाः सर्वाः स्पृधः स्पर्धमानाः आसुरीः सेनाः अजयः जितवानसि ॥ १३ ॥

8.14.14
मा॒याभि᳚रु॒त्सिसृ᳚प्सत॒ इन्द्र॒ द्यामा॒रुरु᳚क्षतः ।
अव॒ दस्यू{4}᳚रधूनुथाः ॥
▶ पदपाठः (Word-by-word)
मा॒याभिः᳚ । उ॒त्॑सिसृ᳚प्सतः । इन्द्र᳚ । द्याम् । आ॒॑रुरु᳚क्षतः ।
अव᳚ । दस्यू᳚न् । अ॒धू॒नु॒थाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मायाभिः उत्सिसृप्सतः सर्वत्र प्रसरतः द्यां आरुरुक्षतः द्युलोकं आरोहतः दस्युन् श्त्रून् उपक्षेप्तृन् अवाधूनुथाः अवाड्मखं प्रेरितवानसि ॥ १४ ॥

8.14.15
अ॒सु॒न्वामि᳚न्द्र सं॒सदं॒ विषू᳚चीं॒ व्य᳚नाशयः ।
सो॒म॒पा उत्त᳚रो॒ भव᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्॑सद᳚म् । विषू᳚चीम् । वि । अ॒ना॒श॒यः॒ ।
सो॒म॒॑पाः । उत्॑त᳚रः । भव᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सोमपाः सोमस्य पाता भूत्वा उत्तरः उत्कृष्टतरोभवन् असुन्वां सोमाभिषवहीनां संसदं जनसंहतिं विषूचीं परस्परविरोधेन विषु नाना गन्त्रीं व्यनाशयः विशेषेण नाशयसि ॥ १५ ॥

तम्वभीति त्रयोदशर्चं तृतीयं सूक्तं औष्णिहमैन्द्रं पूर्वोक्तावेवऋषी तथाचानुक्रम्यते-तम्वभिसप्तोनौष्णिहमिति । महाव्रते निष्केवल्ये औष्णिह- तृचाशीतावुत्तमावर्जमेतत्सूक्तम् सूत्र्यतेहि-तम्वभिप्रगायतेत्युत्तमामुद्धरतीति । आभिप्लविकेषूक्थ्येषु तृतोयसवने ब्रह्मशस्त्रे आद्यस्तृचोवैकल्पिको- नुरूपः सूत्रितञ्च-तम्वभिप्रगायतवयमुत्वामपूर्व्येति ।