श्रवणम्

8.14.13
अ॒पां फेने᳚न॒ नमु᳚चे॒ः शिर᳚ इ॒न्द्रोद᳚वर्तयः ।
विश्वा॒ यदज᳚य॒ः स्पृधः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । फेने᳚न । नमु᳚चेः । शिरः᳚ । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒यः॒ ।
विश्वाः᳚ । यत् । अज᳚यः । स्पृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा किलेन्द्रोसुरान् जित्वा न मुचिमसुरं ग्रहीतुं न शशाक सच युध्यमानस्तेनासुरेण जगृहे सच गृहीतमिन्द्रमेवमवोचत् त्वां विसृजामि रात्रा- वह्निच शुष्केणार्द्रेण चायुधेन यदि मां माहिंसीरिति । सइन्द्रस्तेनविसृष्टः सन् अहोरात्रयोः संधौ शुष्कार्द्रविलक्षणेन फेनेन तस्यशिरश्चिच्छेद अय- मर्थोस्यां प्रतिपाद्यते-हे इन्द्र अपां फेनेन वज्त्रीभूतेन नमुचेरसुरस्य शिरः उदवर्तयः शरीरादुद्गतमवर्तयः अच्छेत्सीरित्यर्थः । कदेतिचेत् यद्यदा विश्वाः सर्वाः स्पृधः स्पर्धमानाः आसुरीः सेनाः अजयः जितवानसि ॥ १३ ॥