श्रवणम्

8.14.15
अ॒सु॒न्वामि᳚न्द्र सं॒सदं॒ विषू᳚चीं॒ व्य᳚नाशयः ।
सो॒म॒पा उत्त᳚रो॒ भव᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्॑सद᳚म् । विषू᳚चीम् । वि । अ॒ना॒श॒यः॒ ।
सो॒म॒॑पाः । उत्॑त᳚रः । भव᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सोमपाः सोमस्य पाता भूत्वा उत्तरः उत्कृष्टतरोभवन् असुन्वां सोमाभिषवहीनां संसदं जनसंहतिं विषूचीं परस्परविरोधेन विषु नाना गन्त्रीं व्यनाशयः विशेषेण नाशयसि ॥ १५ ॥

तम्वभीति त्रयोदशर्चं तृतीयं सूक्तं औष्णिहमैन्द्रं पूर्वोक्तावेवऋषी तथाचानुक्रम्यते-तम्वभिसप्तोनौष्णिहमिति । महाव्रते निष्केवल्ये औष्णिह- तृचाशीतावुत्तमावर्जमेतत्सूक्तम् सूत्र्यतेहि-तम्वभिप्रगायतेत्युत्तमामुद्धरतीति । आभिप्लविकेषूक्थ्येषु तृतोयसवने ब्रह्मशस्त्रे आद्यस्तृचोवैकल्पिको- नुरूपः सूत्रितञ्च-तम्वभिप्रगायतवयमुत्वामपूर्व्येति ।