श्रवणम्

8.14.1
यदि᳚न्द्रा॒हं यथा॒ त्वमीशी᳚य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष᳚खा स्यात् ॥
▶ पदपाठः (Word-by-word)
यत् । इ॒न्द्र॒ । अ॒हम् । यथा᳚ । त्वम् । ईशी᳚य । वस्वः᳚ । एकः᳚ । इत् ।
स्तो॒ता । मे॒ । गो॑स᳚खा । स्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यथा त्वं एकैअत् एकएव केवलं वस्वोवसुनोधनस्य ईशिषे एवमपि यद्यदि अहं ईशीय ऎश्वर्ययुक्तःस्याम् तदानीं मे मम स्तोता गोसाखा स्यात् गोभिः सहितोभवेत् ईश्वरस्य तव स्तोता कुतोहेतोः गोः सहितोन भवेत् अपितु भवेदित्यभिप्रायः ॥ १ ॥