त्वं हि स्तो᳚म॒वर्ध᳚न॒ इन्द्रास्यु᳚क्थ॒वर्ध᳚नः ।
स्तो॒तॄ॒णामु॒त भ᳚द्र॒कृत् ॥
स्तो॒तॄ॒णामु॒त भ᳚द्र॒कृत् ॥
पदपाठः (Word-by-word)
त्वम् । हि । स्तो॒म॒॑वर्ध᳚नः । इन्द्र᳚ । असि᳚ । उ॒क्थ॒॑वर्ध᳚नः ।
स्तो॒तॄ॒णाम् । उ॒त । भ॒द्र॒॑कृत् ॥
स्तो॒तॄ॒णाम् । उ॒त । भ॒द्र॒॑कृत् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं हि त्वं खलु स्तोमवर्धनः स्तोमेन त्रिवृत्पञ्चदशादिना वर्धनीयोसि तथा उक्थवर्धनः उक्थैः शस्त्रैर्वर्धनीयश्च त्वमेवासि । उतापिच स्तोतृणामस्माकं भद्रकृत् भद्रस्य कल्याणस्य फलस्य कर्तापि त्वमेवासि ॥ ११ ॥